________________
चतुर्थः प्रबन्धाध्यायः
२९७ कलहंसप्रबन्धः छन्दसः कलहंसस्य पादैरन्ते स्वरान्वितैः। कलहंसः स्वरे न्यासो गेयो झम्पादितालतः ॥ २४२॥
भाषाविशेषेण नामान्तरं भेदांश्चाह-प्राकृत इति । असौ द्विपथकः प्राकृते दोहा इत्युच्यते । तस्य सारसादयो नव भेदा भवन्ति । तेषां लक्षणमभिधत्ते-- त्रयोदशेति । अयुजि प्रथमे तृतीये च चरणे त्रयोदश मात्रा भवन्ति ; समे द्वितीये चतुर्थे च चरणे द्वादश मात्रा भवन्ति । तदा सारसः । ओजे विषमचरणद्वये मनवश्चतुर्दश मात्राः, समे चरणद्वये रवयो द्वादश मात्रा:, तदा भ्रमरः । विषमे पञ्चदश मात्राः, समे त्रयोदश मात्रा:, तदा हंस: । विषमे त्रयोदश मात्रा:, समे चतुर्दश मात्रा:, तदा कुरर: । विषमे तिथयः पञ्चदश मात्राः, समे रवयो द्वादश मात्राः, तदा चन्द्रलेख: । विषमे त्रयोदश मात्रा:, समे पञ्चदश मात्रा:, तदा कुञ्जरः । विषमे पश्चदश मात्राः, समे चतुर्दश मात्राः, तदा तिलकः । विषमे त्रयोदश मात्रा:, समे षोडश मात्रा:, तदा हंसक्रीडः । एषां पूर्वोक्तानां दोहानामधयोरन्ते पञ्चलघुनिर्मिता षडादिलघुनिर्मिता वा शिखा क्रियते, तदा तं दोहं सूरयो ज्ञातार: केचित् शिखाद्विपथमित्याहुः केचित् मयूरमित्यपि वदन्ति । एतेष्विति । एतेषु पूर्वोक्तेषु दोहेषु व्यत्ययेनापि चरणानां स्थितिः; समचरणलक्षणं विषमचरणयोः, विषमचरणलक्षणं समचरणयोः । एतेषां द्विपथकानामेकद्वित्रिचतुष्पदानां सकृद्गानं, द्विवारं वा गानमित्यादिभेदेन बहवो भेदा भवन्ति । ते लक्ष्येषु लक्षणीयाः ॥ २३२-२४१ ॥
(क०) अथ कलहंसं लक्षयति-छन्दसः कलहंसस्येत्यादि । कलहंसस्य छन्दसो लक्षणं भारतीये जगत्यां नर्कुटभेदेषु मुनिनोक्तम् ; यथा
"द्वितीयसप्तमान्त्यं चतुर्थं यदा गुयंदा च षष्ठो दशमोऽपि वा । ____ अथोदिता हि पादे त्वथ जागते भवेदिदं तु हंसाख्यमिति स्मृतम्॥"
38
Scanned by Gitarth Ganga Research Institute