________________
२९६
संगीतरत्नाकरः तं शिखाद्विपथं प्राहुर्मयूरमपि सूरयः। एतेषु व्यत्ययेनापि चरणानां स्थितिर्भवेत् ॥ २४० ॥ भवन्त्येकादिपादानां सद्विर्गानभेदतः। द्विपथा भूरिभेदास्ते लक्ष्या लक्ष्येषु सूरिभिः॥ २४१ ॥
इति द्विपथप्रबन्धः। यथा पादमितिर्मात्राधिकं न भवति, तथा शिखा कर्तव्येति भावः । एतेष्वित्यादि। एतेषु शिखाद्विपथेषु । चरणानां पादानाम् । व्यत्ययेनापीति । विषमपादोक्तमात्रासंख्या समपादे भवेत् । समपादोक्तमात्रासंख्या विषमपादे भवेदित्यर्थः । भवन्तीत्यादि । एकादिपादानां सद्विर्गानभेदत इति । एकपादस्य प्रथमपादस्येत्यर्थः । तस्य सकृद्गानम् , इतरेषां द्विर्गानम् । प्रथमस्य द्विर्गानम् , इतरेषां सकृद्गानम् । एवं प्रथमद्वितीययोः सकृद्गानं द्विर्गानं च पूर्ववत् द्रष्टव्यम् । तथा त्रयाणां चतुर्णामपि । एवं गानभेदतो द्विपथा भूरिभेदा भवन्तीत्यन्वयः । एते भेदा लक्ष्येषु लक्ष्याः ; नामोद्देशादिना न लक्ष्यन्त इत्यर्थः । अयं मेलापकाभावात् त्रिधातुः । छन्दोनियमान्निर्युक्तः । क्वचित् स्वरपदतालबद्धत्वात् त्र्यङ्गः, भावनीजातिमान् । कचित् पदतालबद्धत्वात् व्यङ्गः, तारावलीजातिमान् । अत्र प्रबन्धस्यैकाङ्गतापत्तेः सप्रयोगानुभयौ तालहीनौ कर्तव्यौ । तेन तालहीनः सतालो वेति विकल्पो भागव्यवस्थया द्रष्टव्यः । यथा सप्रयोगानुभयौ सतालावेव, सस्वरसोभयौ तालहीनौ सतालौ वेति सर्व समञ्जसम् ॥ २३२-२४१॥
(सं०) द्विपथकं लक्षयति--छन्दसेति । द्विपथकनाम्ना छन्दसा निबद्धो द्विपथः । स्वरेषु मुक्तिः समाप्तिर्यस्य स स्वरमुक्तिकः । स तालहीनः, सतालो वा कर्तव्यः। स चतुर्विधः । एकः स्वरैरेवोपनिबध्यते । अपरः प्रयोगैर्गमकैर्निबध्यते । कश्चनोभाभ्यां स्वरगमकाभ्यां निबध्यते । कश्चनानुभय उभाभ्यां हीनः । तस्य
Scanned by Gitarth Ganga Research Institute