________________
२९५
चतुर्थः प्रबन्धाध्यायः सारसो भ्रमरो हंसः कुररश्चन्द्रलेखकः ।। २३४ ॥ कुञ्जरस्तिलको हंसक्रीडोऽप्यथ मयूरकः। त्रयोदशायुजि समे मात्रा द्वादश सारसे ॥ २३५ ॥ ओजेऽङ्घौ मनवो मात्रा भ्रमरे रवयः समे।। मात्राः पञ्चदशायुग्मे हंसे युग्मे त्रयोदश ॥ २३६ ॥ त्रयोदशायुजि कलाः कुररे मनवो युजि । ओजे कलाश्चन्द्रलेखे तिथयो रवयः समे ॥ २३७ ॥ त्रयोदशायुजि कलाः कुञ्जरे तिथयः समे । मात्राः पञ्चदशायुग्मे तिलके मनवः समे ॥ २३८ ।। त्रयोदशासमे हंसक्रीडे युग्मे कलाः कलाः। यद्येषामधयोरन्ते पश्चादिलघुभिः शिखा ॥ २३९ ।।
ननु-अत्र स्वरमुक्तिक इत्युक्तम् । चतुर्णा मध्ये द्वयोरेव स्वरा उक्ताः । तत्रोपपद्यते । द्वयोस्तु नोक्ताः । तत्र कथमिति चेत्, सत्यम् ; तत्र भेदद्वयेऽप्युद्ग्राहस्य स्वरबद्धत्वात् भेदान्तरे स्वराभावेऽपि स्वरशब्देन तत्रोद्ग्राह उपलक्ष्यते । तेनोग्राहे न्यासः स्यादित्यभिप्रायाददोषः । तस्य भेदा इत्यादि । तस्य द्विपथस्य इमे तु वक्ष्यमाणाः सारसादयस्तु नव भेदा भवन्ति । सारसादीनां लक्षणमाह-त्रयोदशेत्यादिना । सारसेऽयुजि विषमपादे त्रयोदश मात्राः । छन्दोगतत्वादेव मात्राशब्देन लध्वक्षरमुच्यते । तालगतत्वे तु पञ्चलम्वक्षरोच्चारणमितकालो द्रष्टव्यः । समे पादे द्वादश मात्रा भवन्ति । भ्रमरादीनां लक्षणानि ग्रन्थत एव सुबोधानि । तत्र मनव इत्यादीनां शब्दानां चतुर्दशादिसंख्यापरत्वं तु प्रसिद्धमेव । एते सारसादयो नव भेदाः प्रथमोक्तेषु चतुर्यु भेदेषु प्रत्येक योजनीयाः। यद्येषामित्यादि। एषां भेदानामर्धयोरन्ते; मध्ये मध्येऽपि वा, पादान्ते वेत्यर्थः । पञ्चादिलघुभिः; आदिशब्देन षट्सप्तादयो गृह्यन्ते ।
Scanned by Gitarth Ganga Research Institute