________________
२९४
संगीतरत्नाकरः
द्विपथप्रबन्धः छन्दसा द्विपथेन स्याद् द्विपथः स्वरमुक्तिकः ॥ २३२ ॥ तालहीनः सतालो वा स च ज्ञेयश्चतुर्विधः। स्वरैरेकोऽन्यः प्रयोगैः सोभयानुभयौ परौ ।। २३३ ॥ प्राकृते दोहसंज्ञोऽसौ तस्य भेदा नव त्विमे ।
(क०) अथ द्विपथकं लक्षयति-छन्दसेत्यादि । द्विपथेनेति । द्विपथं दोधकमिति पर्यायशब्दौ। तेन दोधकलक्षणमेव द्विपथलक्षणं वेदितव्यम् । दोधकलक्षणं तु-"दोधकं भौ भगौ गिति" । अस्यार्थः—यस्य पादे भकारौ भकारगकारौ गकारश्च तत् दोधकं नामेति । अत्रोदाहरणम्
"दोधकमर्थनिरोधनमुग्रं स्त्रीचपलं युधि कातरचित्तम् ।
स्वार्थपरं मतिहीनममात्यं मुञ्चति यो नृपतिः स सुखी स्यात् ॥" इति । अत्र पादान्ते यतिः । द्विपथकस्य दोधकपर्यायत्वं प्राकृते दोहसंज्ञोऽसौ' इत्यनन्तरं वक्ष्यमाणस्य दोहशब्दस्य छायाशब्दत्वेन दोधकशब्दप्रतीतेरवगम्यते । तेन दोधकेन छन्दसेत्यर्थः । स्वरमुक्तिकः स्वरन्यासवान् । पक्षे तालहीनः । पक्षान्तरे सतालः। अनियतैकतालसहितः । स च द्विपथप्रबन्धश्चतुर्विधो ज्ञेयः; वक्ष्यमाणप्रकारैरित्यर्थः। तदेव दर्शयति-स्वरैरित्यादि । एकः प्रथम उग्राहध्रुवयोः स्वरैर्बद्धः स्यादित्यर्थः । अन्यो द्वितीयः पूर्ववत् प्रयोगैः बद्धः स्यात् । परौ तृतीयचतुर्थो सोभयानुभयो । तृतीयः सोभयः, उभयैः स्वरैः प्रयोगैश्च सहितः । तृतीये स्वरैरुद्ग्राहः, प्रयोगैर्भुवः कर्तव्य इत्यर्थः । चतुर्थोऽनुभयः, स्वरप्रयोगाभ्यां रहितः। चतुर्थे पदैरेवोद्ग्राहध्रुवौ कर्तव्यावित्यर्थः। एतेषु पदैराभोगः कर्तव्य इत्यर्थः । प्राकृत इत्यादि । असौ द्विपथकः प्राकृतपदविषयश्चेत् , तदा दोहसंज्ञा भवति । संस्कृते द्विपथसंज्ञो दोधकसंज्ञो वेत्यर्थः ।
Scanned by Gitarth Ganga Research Institute