________________
चतुर्थः प्रबन्धाध्यायः
गाथाप्रबन्धः
'आर्येव प्राकृते गेया स्यात् पञ्चचरणाथवा ' ॥ २३९ ॥ त्रिपदी षट्पदी गाथेत्यपरे सूरयो जगुः ।
इति गाथाप्रबन्धः ।
भङ्गेण लीलेत्यादि । एवमेव पञ्चविंशतिगुरुभङ्गेण वधूरित्यन्तं ज्ञेयम् । अन्ये भेदा: छन्दोलक्षणतः छन्द: शास्त्रतो ज्ञातव्याः | आर्या सामान्यलक्षणमुक्तं वृत्तरत्नाकरे
"लक्ष्मैतत् सप्तगणा गोपेता भवति नेह विषमे ज: । षष्टोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥
षष्ठे द्वितीयलात् परके न्ले मुखलाच्च स यतिपदनियमः । चरमेऽर्थे पञ्चमके तस्नादिह भवति षष्ठो लः || ”
इति ॥ २२५ - २३१ ॥
२९३
(क) अथ गाथां लक्षयति-आर्येत्यादि । उक्तलक्षणायैव प्राकृते प्राकृतपदं विषयीकृत्य गीयते चेत्, तदा गाथा स्यादिति । अनेनार्यायाः संस्कृतपदविषयत्वमुक्तं भवति । पदव्यतिरिक्तमन्यदार्यागतं लक्षणमनुसंधेयम् । केषां - चिन्मतेन पदभेदाभावादार्यैव चरणन्यूनाधिकभावेन गाथा भवतीति लक्षणान्तराणि दर्शयति - पञ्चचरणाथ वेत्यादिना ॥ २३१, २३२ ॥
(सं०) गाथां लक्षयति — आर्यावदिति । प्राकृतभाषायामार्यालक्षणवती गाथेत्युच्यते । अथवा पञ्चचगणवती मात्रया सा कार्या । मतान्तरेण तस्या द्वैविध्यमाह — त्रिपदीति । पादत्रयवती, पादषट्कवती च गाथेति केचन वदन्ति ॥ २३१, २३२ ॥
1 आर्यावदिति सुधाकरपाठः । 2 पञ्चचगणाथवा इति सुधाकरपाठः ।
Scanned by Gitarth Ganga Research Institute