________________
२९०
संगीतरत्नाकरः
आर्याप्रबन्धः अर्धान्ते चरणान्ते वा स्वरान् न्यस्यार्धमादिमम् ॥२२५॥ द्विरार्याछन्दसो गीतं सकृद्गीतं दलान्तरम् । यत्राभोगे गातृनाम सार्या स्याद् ग्रहमुक्तिका ॥२२६॥ लक्ष्मीः स्याद् वृद्धिबुद्धी च लीला लज्जा क्षमा तथा । दीर्घा गौरी ततो राजी ज्योत्स्ना छाया च कान्तिका ॥ मही मतिस्ततः कीर्तिरथ ज्ञेया मनोरमा। स्याद्रोहिणी विशाला च वसुधा शिवया सह ॥२२८॥ हरिणी चाथ चक्राख्या सारसी कुररी तथा। हंसी वधूरिति प्रोक्ता आर्याः षड्रिंशतिःक्रमात् ॥२२९॥ षष्ठादन्यैर्गणैः सर्वगुरुभिः प्रथमा पराः ।
(क०) अथार्या लक्षयति—अर्धान्त इति । आर्याप्रबन्धे अर्धान्ते चरणान्ते वा स्वरान सरिगादीन् न्यस्येत् । तत्रार्धचरणशब्दयोः साकाङ्क्षत्वादनन्तरवाक्यगताया आर्याछन्दस इति षष्ठ्याः संबन्धोऽवगम्यते । आर्याछन्दस आदिममध द्विर्गीनं भवेत् । दलान्तरं द्वितीयम) सकृत् गीतं भवेत् । अत्र प्रथमार्धमुद्ग्राहो द्वितीयाधं ध्रुव इत्यवगन्तव्यम् । आभोगे गातृनामेति । गातृनामेति नेतृप्रबन्धनाम्नोरप्युपलक्षणम् । तेनाभोगो गातृनेतृप्रबन्धनामाङ्कितः कर्तव्य इत्यर्थः । ग्रहमुक्तिका उग्राहन्यासवती सार्या स्यादिति सामान्यलक्षणम् । तद्भेदानुद्दिशति-लक्ष्मीः स्यादित्यादि । तेषां लक्षणानि संक्षिप्याह-पष्ठादन्यरित्यादि । अत्र तावदार्याछन्दसि प्रथमेऽर्धे "लक्ष्मैतत् सप्त गणाः” इत्यादिलक्षणवशाद्गणाः सप्त, अन्ते गुरुश्च कर्तव्यो भवति । अत्र गणास्तु
Scanned by Gitarth Ganga Research Institute