________________
२८९
चतुर्थः प्रबन्धाध्यायः
ध्वनिफुट्टनीप्रबन्धः ध्रुवोद्ग्राही भिन्नतालौ मण्ठकङ्कालवर्जितौ । यस्यां समासु मात्रासु यतिमलापको न च ॥ २२४ ॥ तालद्वयेन सा गेया ढेङ्कीवद् ध्वनिकुहनी।
इति ध्वनिकुट्टनीप्रबन्धः।
स्वरैर्निबद्धः शुद्धः । मिश्रितैः स्वरैर्निबद्धो मिश्र इति । पुनरपि सप्तविध:एकस्वरः, द्विस्वरः, त्रिस्वरः, चतुःस्वरः, पञ्चस्वरः, षट्स्वरः, सप्तस्वरश्चेति । द्विस्वरादीनां क्रमव्यत्यासभेदेन बहवो भेदा भवन्ति । ते लक्ष्येऽप्रसिद्धत्वाविशेषतो नोक्ता इत्यर्थः ॥ २२२, २२३ ॥
(क०) अथ ध्वनिकुट्टनी लक्षयति-ध्रुवोद्ग्राहावित्यादि । भिन्नतालाविति । उद्ग्राहे प्रयुक्तस्तालो ध्रुवे न प्रयोक्तव्य इत्यर्थः । मण्ठकङ्कालवर्जिताविति । मण्ठकङ्कालव्यतिरिक्ततालान्तरयुक्तौ भवत इति नियमः क्रियते । समासु समसंख्यासु मात्रासु यतिः पदविरतिः कर्तव्या । मेलापको न चेति । अनन्तरं ढेकीवदित्यतिदेशः करिष्यते । तत्रापि वैकल्पिको मेलापकः प्रामोतीति नित्यतया तन्निषेधः क्रियते । सा ध्वनिकुट्टनी ढेकीवत्तालद्वयेन गेयेति । यथा ढेकी मिथो ल्यान्तरयुक्तेन तालद्वयेन गीयते, तथेयमपि मिथो भिन्नलयेन तालद्वयेन गातव्येत्यतिदेशार्थः । मेलापकनिषेधादयं त्रिधातुः । तालनियमान्निर्युक्तः । पदतालबद्धत्वात् व्यङ्गः । तारावलीजातिमान् ।। २२४, २२५॥
(सं०) ध्वनिकुट्टनी लक्षयति-धुवोद्गाहाविति । ध्रुव उद्ग्राहश्च भिन्नताली कर्तव्यौ । ध्रुवेऽन्यस्तालः, उद्ग्राहेऽन्यस्ताल: । मण्ठकङ्कालौ न कार्यों । समासु मात्रासु यतिर्यतिताल: कर्तव्यः । प्रयोगात्मको मेलापको नास्ति । अन्यत् सर्व लक्षणं ढेकीवद्यस्याः सा ध्वनिकुट्टनीति ॥ २२४, २२५ ॥
37
Scanned by Gitarth Ganga Research Institute