________________
२८८
संगीतरत्नाकरः
ग्रहन्यासोऽस्य भूयोऽसौ सप्तधैकादिकैः स्वरैः । क्रमोत्क्रमाभ्यां बहुशो भिद्यन्ते द्विखरादयः ॥ २२३ ॥ इति स्वरार्थप्रबन्धः ।
वाग्गेयकारस्याभीष्टोऽर्थोऽभिधीयते उच्यते चेत्, स स्वरार्थो नाम प्रबन्धः । शुद्धमिश्रितैरिति । शुद्धाश्च मिश्रिताश्चेति द्वंद्वः । अत्र केवलं स्वरा एव शुद्धा वा विकृता वा शुद्धत्वेन विवक्षिताः । अक्षरान्तरसहितास्तु मिश्रिताः । ग्रहन्यास इति । ग्रहे न्यास इत्यर्थः । अस्येति स्वरार्थस्य । भूयोऽसौ सप्तधैकादिकैः स्वरैरिति । असौ शुद्धो मिथेोऽपि स्वरार्थ एकादिकैः स्वरैर्भूयः सप्तधेति । अयमर्थः – एकः स्वर एकार्थवाचकपदम् ; द्वौ स्वररावेकार्थवाचकं पदम्, त्रयः स्वरा एकार्थवाचकं पदमित्येवमादयः सप्त शुद्धभेदा द्रष्टव्याः । एवमेकस्वरयुक्तं द्विस्वरयुक्तं त्रिस्वरयुक्तं पदमित्यादिना मिश्रोऽपि सप्तधा द्रष्टव्य इति । भूय इत्यनेन प्रत्येकमित्यवगन्तव्यम् । क्रमोत्क्रमाभ्यामित्यादि । द्विस्वरादय इति । शुद्धैः षट्, मिश्रैश्च षट् ; मिलित्वा द्वादश भेदाः क्रमोत्क्रमाभ्यां सरिगादिना क्रमेण रिसगादिना व्युत्क्रमेण च बहुशो भिद्यन्ते; संख्यातुमशक्या इत्यर्थः । अत्र शुद्धमिश्राश्रितयोरेकस्वरयोः क्रमाद्यसंभवात् द्विस्वरादय एवोक्ता इत्यवगन्तव्यम् । एवं नियमे - नोद्ग्राहभ्रुवौ गातव्यौ । आभोगस्त्वन्यपदैः पूर्ववद्गातव्यः । तेनायं त्रिधातुः । तालाद्यनियमादनिर्युक्तः । पदतालबद्धत्वात् द्वयङ्गः । तारावलीजातिमान् । अत्र सरिगादिस्वरप्रयोगेऽपि तेषां वाचकपदत्वेनोपस्थापितत्वादन्यत्र स्वरबद्धत्वं नाशङ्कनीयम् ॥ २२२, २२३ ॥
(सं०) अथ स्वरार्थी लक्षयति-यत्रेति । यत्र सरिगमादिस्वराक्षरैरेव स्वाभिलषितार्थो निबध्यते, स स्वरार्थः । स द्विविधः प्रहे न्यासे च तैः शुद्धैः
Scanned by Gitarth Ganga Research Institute