________________
२८७
चतुर्थः प्रबन्धाध्यायः स्वरन्यासः स तन्नाम्ना छन्दसा मुक्तकोऽथवा ॥२२१॥
___ इति क्रौञ्चपदप्रबन्धः।
स्वरार्थप्रबन्धः यत्र खराक्षरैरेव वाञ्छितोऽर्थोऽभिधीयते ।
स खरार्थो द्विधा शुद्धो मिश्रस्तैः शुद्धमिश्रितैः ।।२२२॥ कर्तव्यः; पदैर्भुवः । स्वरन्यास' ; उग्राहमारभ्य न्यसनीय इत्यर्थः । स तन्नाम्ना छन्दसेति । सः; क्रौञ्चपदः । तन्नाम्ना; क्रौञ्चपदामिधानेन । अथवा मुक्तः छन्दोहीन इत्यर्थः । क्रौञ्चपदलक्षणं त्वतिकृतौ छन्दसि "क्रोश्चपदा भूमौ स्मौ नौ नौ ग्भूतेन्द्रियवस्वृषयः” इति । अस्यार्थः- यस्य पादे भकारमकारौ सकारभकारौ नकाराश्चत्वारो गकारश्च भवति, तत् क्रौञ्चपदा नाम । पञ्चसु पञ्चस्वष्टसु सप्तसु च यतिरिति । तत्रोदाहरणम्
"या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना
दीर्घतराभिः स्थूलशिराभिः परिवृतवपुरतिशयकुटिलगतिः । आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिचितहृदया
सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधिसुखमभिलषता ।।" इति । अत्रापि पूर्ववदाभोगः पदैः कर्तव्यः । तेनायं त्रिधातुः । तालादिनियमानियुक्तः । स्वरपदतालबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ २२१ ॥
(सं०) क्रौञ्चपदं लक्षयति-पदैरिति । क्रौञ्चपदनाम्ना छन्दसा विरचितः, छन्दोहीनश्च ॥ २२१ ॥
(क०) अथ स्वरार्थ लक्षयति-यत्र स्वराक्षरैरेवेति । स्वराक्षरैरेव षड्जादिस्वरवाचकैः सरिगमपधनिभिरेव वाचकपदत्वमापन्नैर्वाञ्छितोऽर्थो
Scanned by Gitarth Ganga Research Institute