________________
२८६
संगीतरत्नाकरः
चक्रवालप्रबन्धः पूर्वपूर्वाक्षरवाते योऽन्त्यो वर्णचयः स चेत् ।। २१९ ॥ उत्तरोत्तरसंघादौ चक्रवालस्तदोच्यते । गद्यपद्यप्रभेदेन स द्विधा गदितो वुधैः ॥ २२० ॥
___इति चक्रवालप्रबन्धः।
क्रौञ्चपदप्रबन्धः पदैः स्वरैः क्रौञ्चपदः प्रतितालेन गीयते । प्रतिचरणं चेत् , तदा धृतिः । एकश्छगणः, चत्वारो यगणाः, अन्ते गुरुः प्रतिचरणं चेत् , तदा तारेति ॥ २१३-२१९ ॥
(क०) अथ चक्रवालं लक्षयति-पूर्वपूर्वाक्षरवात इत्यादि। पूर्वपूर्वेति वीप्सायां द्विवचनम् । अक्षरव्रातः ; वर्णसमूहः पदमित्यर्थः । तस्मिन् योऽन्त्यो वर्णचयोऽक्षरसमुदायः ; द्वौ वा त्रयो वा वर्णा इत्यर्थः । स वर्णचय उत्तरोत्तरसंघादौ उत्तरोत्तरपदादौ भवति चेत् , तदा चक्रवाल इत्युच्यते । अयं वर्णावृत्तिनियम उद्ग्राहध्रुवयोरवश्यं कर्तव्यः । आभोगे त्वनियम इति संप्रदायो वेदितव्यः । तेनायं त्रिधातुः । तालाद्यनियमादनियुक्तः। पदतालबद्धत्वात् द्वयङ्गः । तारावलीजातिमान् ॥ २१९, २२० ॥
(सं०) चक्रवालं लक्षयति-पूर्वेति । पूर्वेषामक्षराणामन्ते यो वर्णसमूहः, स उत्तरोत्तरस्य संवस्याक्षरसमूहस्याद्यो भवति चेत्, तदा चक्रवालः । स द्विविध:-गद्यजः, पद्यजश्चेति ॥ २१९, २२० ॥
(क०) अथ क्रौञ्चपदं लक्षयति-पदैः स्वरैरित्यादि । प्रतितालेनेति । 'लद्रुतौ प्रतितालः स्यात्' इति लक्षणं वक्ष्यते । अत्र स्वरैरुग्राहः
Scanned by Gitarth Ganga Research Institute