________________
चतुर्थ: प्रबन्धाध्यायः
तारा छेन चतुर्भिश्च यगणैरन्तिमे गुरौ । इति द्विपदीप्रबन्धः ।
२८५
तैस्त्रिभिरादौ छगणेन च कृताङ्घ्रिका धृतिरित्युच्यते । अन्तिमे गुरौ सति छगणेन चतुर्भिर्यगणैश्च कृताङ्घ्रिका तारा । एतासां पादचतुष्टययुक्तत्वे एकैकार्धस्य पादत्वविवक्षया द्विपदीव्यपदेशो द्रष्टव्यः । इत्यष्टौ द्विपद्यः । अत्र प्रथमार्धमुद्ग्राहः । उत्तरार्धं ध्रुवः । पृथक्पादैराभोगो गातृनेतृप्रबन्धनामाङ्कितः कर्तव्यः । अतोऽयं त्रिधातुः । तालनियमान्निर्युक्तः । पदतालबद्धत्वात् द्व्यङ्गः । तारावलीजातिमान् । मतान्तरेण स्वरेणापि बद्धत्वात् त्र्यङ्गो भावनीजातिमांश्च ॥ ॥ २१३-२१९ ॥
(सं०) द्विपर्दी लक्षयति- शुद्धेति । करुणाख्येन तालेन या विरच्यते, साद्विपदी । सा चतुर्विधा - शुद्धा, खण्डा, मात्राद्विपदी, संपूर्णेति । तत्र शुद्धां लक्षयति-पाद इति । पादे एकरछगणः कर्तव्य: । पश्च भाः भगणाः कर्तव्याः । अन्ते गो गुरुः । पष्ठद्वितीयकौ जगणौ स्तः । पूर्व छगणः, ततो जगणः, ततः पञ्च भगणाः, पुनरपि जगणः, अन्ते गुरुः, एवं पादः कर्तव्यः । एवंविधैः चतुर्भिः पादैः शुद्धा द्विपदी भवति । केषांचिन्मते एतस्यार्धान्ते स्वराः कर्तव्याः । खण्डां लक्षयति-खण्डा स्यादिति । अर्धया शुद्धया द्विपद्या खण्डेत्युच्यते । पादद्वयेनैव विरच्यत इत्यर्थः । मात्राद्विपदीमाह - षष्ठेनेति । षष्ठस्य जगणस्य स्थान एक एव गुरुः क्षिप्यते चेत्, मात्राद्विपदी । संपूर्णामाह - ज्ञेयेति । शुद्धैव द्विपदी अन्त एकेन गुरुणाधिकेन युक्ता संपूर्णेत्युच्यते । द्विपद्या अन्यान् भेदानाह - पुनरिति । पुनरपि द्विपदी चतुर्धा - मानवी, चन्द्रिका, धृतिः, तारेति । एतासां लक्षणमाह- मानवीति । छेन छ्गणेन तगणद्वयेन च चतुष्कलाश्च कृताश्चत्वारोऽङ्घ्रयो यस्याः सा तथाविधा मानवीत्युच्यते । पगणद्वयम्, एकः तगणः, अन्ते लगौ लघुगुरू, एको लघुः, एको गुरुश्चान्ते यदा क्रियते, एवंविधचरणचतुष्टयवती चन्द्रिका । छगण एकः, चतुर्मात्रागणास्त्रयः
Scanned by Gitarth Ganga Research Institute