________________
२८४
संगीतरत्नाकरः चतुभिरीदृशैः पादैः शुद्धा द्विपदिकोच्यते । अर्धान्तेऽन्ये खरानाहुः खण्डा स्याच्छुद्धयाईया।।२१५॥ षष्ठेनैकेन गुरुणा मात्राद्विपदिका मता। ज्ञेया शुद्धैव संपूर्णा गुरुणान्तेऽधिकेन तु ॥ २१६ ॥ पुनश्चतुर्धा द्विपदी मानवी चन्द्रिका धृतिः । तारेति मानवी छेन तद्वयेन कृताधिका ॥ २१७ ॥ पद्वयं तगणश्चान्ते लगौ चेचन्द्रिका मता। छगणेन चतुर्मात्रैस्त्रिभिश्च धृतिरुच्यते ॥ २१८ ॥
पञ्च प्रयोक्तव्याः। गोऽन्ते ; अन्तेऽवसाने गो गुरुः । एवं सामान्येन गणानुक्त्वा विशेषमाह-जौ स्तः षष्ठद्वितीयकाविति । पष्ठद्वितीयको गणौ जौ स्तः मध्यगुरू जगणौ भवतः । अन्य आचार्या अर्थान्ते पादद्वयावसाने स्वरानाहुः, स्वराः प्रयोक्तव्या इति वदन्ति । खण्डा स्यादिति । अयमर्थ:उक्तेषु चतुर्पु पादेपु प्रथमं पादद्वयं नियतलक्षणम् , उत्तरपादद्वयमनियतलक्षणं कृतं चेत्, खण्डा नाम द्विपदी भवेत् । पठेन गुरुणेति । प्रतिपादं षष्ठगणस्थाने एक एव गुरुः प्रयुज्यते चेत्, मात्राद्विपदिकेति संमता । ज्ञेयेत्यादि । प्रतिपादमप्यधिकेन गुरुणा तु शुद्धैव संपूर्णा विज्ञेया । शुद्धायाः प्रतिपादान्तमेकैको गुरुरधिकः कर्तव्य इत्यर्थः । पुनश्चतुर्धेत्यादि । छेन षण्मात्रिकेण गणेन । तद्वयेनान्त्यलयुयुक्तयोः पञ्चमात्रिकयोस्तगणयोयेन । अत्र पूर्वोत्तरोक्तभगणयगणसाहचर्यात्तगण इति वर्णगण एव गृह्यते; न त्रिमात्रिको मात्रागणः । एतैः कृताधिका मानवी । पद्वमिति । पञ्चमात्रिकयोः पगणयोर्द्वयम् । तगण इत्यत्रापि वर्णगणः । अन्ते लगौ चेदिति । प्रतिपादमित्यवगन्तव्यम् । तदा चन्द्रिका । चतुर्मात्रैरिति । भगणैर्जगणैवेत्यर्थः ।
Scanned by Gitarth Ganga Research Institute