________________
चतुर्थः प्रबन्धाध्यायः
२८३ गजलीलाप्रबन्धः तालेन गजलीलेन गजलीला निगद्यते ॥ २१२ ॥ छन्दोहीनेतरल्लक्ष्म यलीलागतं मतम् ।
इति गजलीलाप्रबन्धः।
द्विपदीप्रबन्धः शुद्धा खण्डा च मात्रादिः संपूर्णेति चतुर्विधा ॥२१३॥ द्विपदी करुणाख्येन तालेन परिगीयते। पादे छः पञ्च भा गोऽन्ते जो स्तः षष्ठद्वितीयको ।।२१४॥
(क०) अथ गजलीलां लक्षयति-तालेन गजलीलेनेत्यादिना । 'गजलीले विरामान्तमुक्तं लघुचतुष्टयम् । इति वक्ष्यमाणलक्षणेन तालेन निबद्धा गेयेत्यर्थः । छन्दोहीनेतरदिति । हयलीलच्छन्दसा हीनम् इतरल्लक्ष्म ; प्रथम गद्यपद्यजत्वेन द्विविधत्वम् , पद्यजाया आर्यावृत्ताश्रयणेन चतुर्विधत्वं च हयलीलागतं लक्षणमत्राप्यनुसंधेयमित्यर्थः । तेन गजलीलाः पञ्च भवन्ति । अनयोर्लीलापदार्थप्राधान्यात् स्त्रीलिङ्गतया निर्देशः । नियुक्तत्वादिकं यलीलावत् द्रष्टव्यम् । ॥ २१२, २१३ ॥
(सं०) गजलीलां लक्षयति-तालेनेति । गजलीलेन तालेन गजलीला कर्तव्या । छन्दो विहाय अन्यल्लक्षणं पूर्वोक्तहयलीलावत् । गद्यपद्यजादिभेदा अपि पूर्ववत् ज्ञातव्याः ॥२१२, २१३ ॥
(क०) अथ द्विपदी भेदपूर्वकं लक्षयति-शुद्धेत्यादि । करुणाख्येन तालेनेति । 'गुरुणा करुणो मतः' इति करुणताललक्षणं वक्ष्यते । तत्र शुद्धाया लक्षणमाह-पादे छ इत्यादि । पादे चतुर्पु पादेप्वेकैकस्मिन् छः छगणः षण्मात्रिको मात्रागणः । पञ्च भाः भगणा आदिगुरवो वर्णगणाः
Scanned by Gitarth Ganga Research Institute