________________
२८२
संगीतरत्नाकरः अश्वललितमेव हयलीलम् । एकादशभिर्द्वादशभिश्च यतिः । तत्रोदाहरणम्
"पवनविधूतवीचिचपलं विलोकयति जीवितं तनुभृतां
वपुरपि हीयमानमनिशं जरावनितया वशीकृतमिदम् । सपदि निपीडनव्यतिकरं यमादिव नराधिपान्नरपशुः
परवनितामवेक्ष्य कुरुते तथापि हतबुद्धिरश्वललितम् ॥"
इति । एवंविधं हयलीलं छन्द आर्यास्थाने प्रयुज्य पूर्वार्धमुत्तरार्ध वेत्यादिषु भेदेषु पूर्ववत् कृतेषु मतान्तरेणापि चतस्रः पद्यजाः । गद्यजया सहैवं नव हयलीला भवन्ति । नवानामपि तालस्तु हयलील एव । अत्रार्याया हयलीलच्छन्दसो वा पूर्वार्धे गद्यस्य पूर्वभागो वोद्ग्राहः कल्पनीयः । तदुत्तरार्धं तदुत्तरभागो वा ध्रुवः कल्पनीयः । अत्राभोगस्यानुक्तत्वाद्गातृनेतृप्रबन्धनामाङ्कितैः पदैराभोगः कर्तव्यः । तेनायं त्रिधातुः । छन्दस्तालनियमान्नियुक्तः । कचित् स्वरपदविरुदतालबद्धत्वाच्चतुरङ्गः । दीपनीजातिमान् । कचित् पदतालबद्धत्वात् द्वयङ्गः। तारावलीजातिमान् ।। २०९-२१२ ॥
(सं०) तुरगलीलां लक्षयति-ह्यलीलेनेति । वक्ष्यमाणेन हयलीलेन तालेन या विरच्यते, सा ह्यलीलेति । सा द्विधा-पद्यजा गद्यजेति । तत्र पद्यजा चतुर्भेदा । तानेव भेदान् कथयति-पूर्वार्धमिति । पूर्वार्धमेव तालसंयुक्तं चेदेको भेदः। उत्तरार्धमेव तालसंयुक्तं चेदेको भेदः। द्वे पूर्वार्धोत्तरार्धे तालसंयुक्ते चेदेको भेदः । भेदत्रयेऽप्यात्रियेण भवितव्यम् | चतुर्थभेदं लक्षयति-चतुर्थी त्विति । चतुर्थी तुरगलीला आदिमेऽर्धे स्वरैर्विरच्यते ; परेऽर्धे बिरुदैः समानैविरच्यते ; अर्धद्वयमपि सताले: ; एवं चत्वारो भेदाः । मतान्तरमाहकेचिदिति । तां पूर्वजां तुरगलीलां हयलीलेन छन्दसा केचिद्वदन्ति । एवं पद्यजाष्टविधा, गद्यजैकेति नव भेदाः ॥ २०९-२१२॥
Scanned by Gitarth Ganga Research Institute