________________
२८१
चतुर्थः प्रबन्धाध्यायः गद्यजा पद्यजा चेति पद्यजा तु चतुर्विधा। पूर्वार्धमुत्तरार्धं वा द्वे वा तालयुतं यदि ॥ २१० ॥ आर्यायाः स्युस्तदा तिस्रश्चतुर्थी त्वादिमे दले । स्वरैः पदैस्तु बिरुदैः सताले रचिता मता ॥ २११ ।। केचित्तु हयलीलेन छन्दसा तां विदुर्बुधाः ।
इति हयलीलाप्रबन्धः।
वक्ष्यते ; तदिहानुसंधेयम् । पद्यजेति । पद्यं पादबद्धं पदकदम्बकम् । यथोक्तम्‘पद्यं चतुष्पदे तच्च ' इति । गद्यं त्वपादबद्धम् । पूर्वार्धमित्यादि । आर्याया इति।
"लक्ष्मैतत् सप्त गणा गोपेता भवति नेह विषमे जः ।
षष्ठोऽयं नलघू वा प्रथमाधैं नियतमार्यायाः ॥” । इत्येवमादि लक्षणमुक्तम् । एवंविधलक्षणरूपाया आर्यायाः पूर्वार्ध तालयुक्तं चेत्, एका हयलीला । उत्तरार्ध वा तालयुक्तं चेत् , द्वितीया। द्वयोरेकस्मिंस्तालयुतेऽन्यत् तालहीनमित्यर्थः । द्वे वा पूर्वोत्तरार्धे वा यदि तालयुते, तदा तृतीया । चतुर्थी त्विति । आदिमे दले प्रथमाधै सतालैः स्वरैः पदैविरुदैश्च रचिता चतुर्थी हयलीला मता। अत्र तुशब्देनाद्यानां तिसृणां केवलपदरचितत्वं द्योत्यते। एवं पद्यजाश्चतस्रः । केचित्त्वित्यादि । हयलीलेन छन्दसेति । तस्य लक्षणं तु विकृतौ छन्दसि-"अश्वललितं जौ भजौ भजौ भूलो ग्रुद्रादित्याः" । इति । अस्यार्थः-यस्य पादे नकारजकारौ भकारजकारौ पुनर्भकारजकारौ भकारलकारौ गकारश्च भवति तत् वृत्तमश्वललितं नामेति ।
Scanned by Gitarth Ganga Research Institute