________________
२८०
संगीतरत्नाकरः
हयलीलाप्रबन्धः हयलीलेन तालेन हयलीला द्विधा च सा ॥ २०९ ॥
इत्यर्थः । छन्दोनिबद्धत्वादयं नियुक्तः । मेलापकाभावात् त्रिधातुः । पदपाटबिरुदबद्धत्वात् व्यङ्गः । भावनीजातिमान् ॥ २०४-२०९॥ .
(सं०) कन्दं लक्षयति-कर्णाटादिपदैरिति । कर्णाटादिभाषापदैः पाटवाद्याक्षरैविरुदैश्च, तालवर्जितोऽताल:, आर्यागीतावार्यागीतिसंज्ञके छन्दसि, वीररसे यो विरच्यते, स कन्द इत्युच्यते । तस्य पाटैः समाप्ति: । आर्यागीतिलक्षणमुक्तं वृत्तरत्नाकरे
"आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं गीतवान् भुजङ्गेशः ॥" इति । तस्य कन्दस्य भेदानाह-पवन इति । पवनादिकामपर्यन्ता एकोनत्रिंशद्भेदा भवन्ति । तेषां लक्षणमाह-त्रिंशद्गुरोरिति । त्रिंशद्गुरुमारभ्यैकैकन्यूनतया द्विगुरुपर्यन्ता: पवनादयो ज्ञातव्याः । त्रिंशद्गुरुः पवनः । एकोनत्रिंशद्गुरुः रविः । अष्टाविंशतिगुरुर्धनदः । सप्तविंशतिगुरुर्हव्यवाहनः । षड्विंशतिगुरुः सुरनाथः । पञ्चविंशतिगुरुः समुद्रः । चतुर्विंशतिगुरुवरुणः । त्रयोविंशतिगुरुः शशी। द्वाविंशतिगुरुः शैल: । एकविंशतिगुरुमधु: । विंशतिगुरुधिवः । एकोनविंशतिगुरुर्मकरध्वजः । अष्टादशगुरुर्जयन्तः । सप्तदशगुरुमधुप: । षोडशगुरुः शुकः । पञ्चदशगुरुः सारसः । चतुर्दशगुरुः केकी । त्रयोदशगुरुर्हरिः । द्वादशगुरुर्हरिणः । एकादशगुरुर्हस्ती । दशगुरुः कादम्बः । नवगुरु: कूर्मः | अष्टगुरुनयः । सप्तगुरुविनयः । षड्गुरुविक्रमः । पञ्चगुरुरुत्साहः । चतुर्गुरुर्धर्मः । त्रिगुरुरर्थः । द्विगुरुः काम इति ॥ २०४-२०९ ॥
(क०) अथ तुरगलीलां लक्षयति-हयलीलेन तालेनेत्यादि । 'विरामान्तद्रुतत्रयात्, द्रुतौ तुरगलीलः स्यात्' इति हयलीलतालस्य लक्षणं
Scanned by Gitarth Ganga Research Institute