________________
चतुर्थः प्रबन्धाध्यायः विनयो विक्रमोत्साही धर्मार्थो काम इत्यमी । एकोनत्रिंशदाख्याताः कन्दभेदाः पुरातनैः ॥ २०८ ॥ 'त्रिंशाद् गुरोरा द्विगुरोः क्रमादेकैकभङ्गतः ।
. इति कन्दप्रवन्धः। लक्षणानि संक्षिप्याह-त्रिंशाद् गुरोरा द्विगुरोः क्रमादेकैकभङ्गत इति । तमडागमस्य विकल्पितत्वात् यदा तमडभावस्तदा टिलोपे सति त्रिंश इति रूपम् । त्रिंशादिति ल्यव्लोपे पञ्चमी । त्रिंशमारभ्येत्यर्थः । आ द्विगुरोरिति । द्वितीयो गुरुर्द्विगुरुः, तत्पर्यन्तमित्यर्थः । एकैकभङ्गत इति । एकमेकं गुरुं द्वौ द्वौ लघु कृत्वेत्यर्थः । क्रमादिति । त्रिंशद्गुर्वात्मिकायामार्यागीतौ त्रिंशस्य गुरोभङ्गात् पवनो नाम कन्दभेदः । एकोनत्रिंशस्य भङ्गात् रविसंज्ञकः । अष्टाविंशस्य भङ्गात् धनदः । सप्तविंशस्य भङ्गात् हव्यवाहनः । षड्रिंशस्य भङ्गात् सुरनाथः । पञ्चविंशस्य भङ्गात् समुद्रः । चतुर्विशस्य भङ्गाद्वरुण: । त्रयोविंशस्य भङ्गात् शशी। द्वाविंशस्य भङ्गात् शैलकः । एकविंशस्य भङ्गात् मधुः । विंशस्य भङ्गात् माधवः । एकोनविंशस्य भङ्गात् मकरध्वजः । अष्टादशस्य भङ्गात् जयन्तः । सप्तदशस्य भङ्गात् मधुपः । षोडशस्य भङ्गात् शुकः । पञ्चदशस्य भङ्गात् सारसः । चतुर्दशस्य भङ्गात् केकी। त्रयोदशस्य भङ्गात् हरिः। द्वादशस्य भङ्गात् हरिणः । एकादशस्य भङ्गात् हस्ती। दशमस्य भङ्गात् कादम्बः । नवमस्य भङ्गात् कूर्मकः । अष्टमस्य भङ्गात् नयः । सप्तमस्य भङ्गात् विनयः । षष्ठस्य भङ्गात् विक्रमः । पञ्चमस्य भङ्गादुत्साहः । चतुर्थस्य भङ्गात् धर्मः । तृतीयस्य भङ्गादर्थः । द्वितीयस्य भङ्गात् काम इति । एवमेकोनत्रिंशत् कन्दभेदा आख्याताः । एकैकभङ्गत इत्यनेनैकस्यैव गुरोर्भङ्गेन लघुद्वयरूपता । इतरेषां गुरुरूपतैव । आ द्विगुरोरित्यनेनाद्यगुरोभङ्गो न कर्तव्य
1 त्रिंशद्रोरिति सुधाकरपाठः।
Scanned by Gitarth Ganga Research Institute