________________
२७८
संगीतरत्नाकरः आर्यागीतौ रसे वीरे कन्दः स्यात् पाटमुक्तिकः। पवनो रविसंज्ञश्च धनदो हव्यवाहनः ॥ २०५॥ सुरनाथः समुद्रश्च वरुणः शशिशैलको । मधुमाधवनामानौ ततोऽपि मकरध्वजः ॥ २०६ ॥ जयन्तो मधुपश्चाथ शुकसारसकेकिनः। हरिश्च हरिणो हस्ती कादम्बः कूर्मको नयः ॥ २०७॥
रित्यनेन देशभाषापदान्येव गृह्यन्ते ; न संस्कृतपदानि । आर्यागीताविति । आर्यागीतेहि लक्षणं छन्दोविचितौ-"प्रथमार्धसमा गीतिः" इति। अस्यार्थः-- द्वितीयमधं प्रथमाधैन समं यस्याः सा आर्यागीतिरिति । उदाहरणं च
"मधुरं वीणारणितं पञ्चमसुभगश्च कोकिलालापः ।
गीतिः पौरवधूनां मधुरा कुसुमायुधं विबोधयति ॥" इति । वृत्तरत्नाकरेऽपि
"आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं गीतवान् भुजङ्गेशः ॥" इत्येतल्लक्षणमुदाहरणं च । आर्यायां तावत् प्रथमाधै त्रिंशन्मात्राः । द्वितीयाधै सप्तविंशतिर्मात्राः । आर्यागीतौ तु द्वितीयाधेऽपि त्रिंशन्मात्रा भवन्तीत्यर्थः । एवंविधायामार्यागीतौ प्रथमार्धमुग्राहं कृत्वा पदैर्गायेत् । द्वितीयाधं ध्रुवं कृत्वा पाटैविरुदैश्च गायेदित्यर्थः । पाटमुक्तिक इति । ध्रुवाख्यस्य द्वितीयार्धस्यादौ पाटानुपक्रम्य न्यासं कुर्यादित्यर्थः । तालवर्जित इति । तालस्वरूपेण शून्यो गेय इत्यर्थः । न तालनियमशून्य इति विवक्षितः । आभोगमपि सामान्यन्यायेन पदैः कल्पयेत् । कन्दस्य सामान्यलक्षणमुक्त्वा तद्भेदान् दर्शयति-पवन इत्यादिना । तेषां
Scanned by Gitarth Ganga Research Institute