________________
२७७
चतुर्थः प्रबन्धाध्यायः वेदोत्तरा जातिमती षट्प्रकारेति सा मता। एकद्वित्रिचतुष्पश्च तालाः स्युबिरुदानि तु ॥ २०२ ।। अष्टौ षोडश तद्वच द्वात्रिंशद् द्वयधिका क्रमात् । पञ्चाशच चतुर्युक्तं शतमाद्यासु पञ्चसु ॥ २०३ ॥ नियमो जातिमत्यां तु न तालविरुदाश्रयः।
___ इत्यङ्कचारिणीप्रबन्धः।
कन्दप्रबन्धः कर्णाटादिपदैः पाटबिरुदैस्तालवर्जितः ।। २०४ ॥ बिस्दानि गीयन्ते, सा वेदोत्तरा । एवमाद्यासु पञ्चसु योजनीयम् । जातिमत्यां तु तालविरुदाश्रयो नियमो नेति । तालबिरुदाश्रयो नियमो नास्तीत्यर्थः । तेनाद्यासु पञ्चस्वपि तालादिसंख्यानियम एव; न तालादिस्वरूपनियमः । अतोऽयमनियुक्तः । मेलापकाभावात् त्रिधातुः । विरुदपदतालबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ २००-२०४ ।।
(सं०) अङ्कचारिणी लक्षयति-वीररौद्राश्रयैरिति । वीरौद्राश्रयैः बिरुदैर्येन केनचित्तालेन निबद्धा अङ्कचारिणी। वर्ण्यस्य नायकस्य नाम्नाङ्कित आभोगो यस्याः, तथाविधा कर्तव्या । सा च षट्प्रकारा-वासवी, कलिका, वृत्ता, वीरवती, वेदोत्तरा, जातिमतीति । एतासां लक्षणमाह-एकेति | आद्यासु पञ्चस्वेकादितालनियमः। अष्टादिबिरुदनियमः । अत एकस्ताल:, अष्टौ बिरुदानि यस्यां सा वासवी। द्वौ तालौ, षोडश बिरुदानि यस्यां सा कलिका। त्रयस्तालाः, द्वात्रिंशद्विरुदानि यस्यां सा वृत्ता। चत्वारस्ताला:, द्विपञ्चाशद्विरुदानि यस्यां सा वीरवती । पञ्च तालाः, चतुरधिकं शतं बिरुदानि यस्यां सा वेदोत्तरेति । अन्त्या जातिमती तालबिरुदानामाश्रयो न भवति ॥२००-२०४॥
(क०) अथ कन्दं लक्षयति-कर्णाटादीत्यादि । कर्णाटादिपदै
Scanned by Gitarth Ganga Research Institute