________________
संगीतरत्नाकर:
अङ्कचारिणीप्रबन्धः
'वीररौद्राश्रितैर्बद्धा बिरुदैरङ्कचारिणी ॥ २०० ॥ वनामाङ्किताभोगा तालेनेष्टेन गीयते । वासवी कलिका वृत्ता ततो वीरवती भवेत् ॥ २०१ ॥
२७६
नेतृगातृप्रबन्धनामाङ्कितैः पदैराभोगो गातव्यः । तेनायं त्रिधातुः । तालाद्यनियमादनिर्युक्तः । पाटपदतालबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ १९९, २०० ॥
(सं०) कैवाडं लक्षयति—पाटैरिति । पाटाक्षरैर्ध्रुवोद्राहौ कर्तव्यौ । हे उद्गाहे समाप्तिर्यस्य स कैवाडः । स च द्विविध:- सार्थकैः पाटैरेक: ; अनर्थकैर्द्वितीय इति । पुनरपि द्वितीयः शुद्धो मिश्र इति द्विविधः । केवलैः पाटैर्विरचितः शुद्धः । षट्स्वरादिभिर्मिश्रितैः पाटैर्मिश्र इति ॥ १९९, २०० ॥
(क०) अथाङ्कचारिणीं लक्षयति - वीर रौद्रेति । केवलं बिस्दैरित्युक्ते शृङ्गाराद्याश्रितान्यपि बिरुदानि प्रसज्यन्ते । तद्वयवच्छेदाय वीररौद्राश्रितैरिति विशेषणम् । अत्र वीरशब्देन दानवीरो दयावीरो युद्धवीर इति त्रिविधोऽपि वीरो गृह्यते । तेन त्रिविधवीराश्रितानि विस्दानि ग्राह्याणि । एवंविधैर्विरुदैरुद्ग्राहभ्रुवौ बध्नीयादित्यर्थः । वर्ण्यनामाङ्किताभोगेति । अत्र वर्ण्यनामेति गातृप्रबन्धनाम्नोरप्युपलक्षणम् । तेनाभोगो वर्ण्यादित्रितयनामाङ्कितैः पदैः कर्तव्यः । तद्भेदानाह – वासवीत्यादि । यत्रैकेन तालेनाष्टौ बिरुदानि गीयन्ते, सा वासवी । यत्र द्वाभ्यां तालाभ्यां पोडश बिरुदानि गीयन्ते सा कलिका | यत्र त्रिभिस्तालैर्द्वात्रिंशद्विस्दानि गीयन्ते सा वृत्ता । यत्र चतुर्भिस्तालैर्द्वयधिकपञ्चाशद्विरुदानि गीयन्ते, सा वीरवती । यत्र पञ्चभिस्तालैश्चतुर्युक्तं शतं
"
1 वीररौद्राश्रयैरिति सुधाकरपाठः ।
Scanned by Gitarth Ganga Research Institute