________________
चतुर्थः प्रबन्धाध्यायः
कैवाडप्रबन्धः पाटैः स्यातां ध्रुवोद्ग्राही कैवाडे न्यसनं ग्रहे । सार्थकैरर्थहीनैश्च पादैः स द्विविधो मतः ॥ १९९ ॥ स शुद्धैमिश्रितैः पाटैः शुद्धो मिश्र इति द्विधा।
___इति कैवाडप्रवन्धः।
भेदाः । तेषां गानप्रकारमाह-प्रणवाद्यमिति । प्रबन्धकं पूर्व गायेत् ; उद्गाहरूपमित्यर्थः । तस्य विशेषणानि प्रणवाद्यमित्यादीनि । प्रणव ओंकार आदौ यस्य । अतालं तालवर्जितम् । सर्वैरपि गमकैर्युक्तम् । अतालशब्दानां वर्णः पादाक्षरैर्युक्तम् । अन्ते मध्ये च स्वरैयुक्तम् । एवंविधं प्रबन्धकं ततः सतालं पदद्वयं पृथग्द्विर्गीत्वा विलम्बितः प्रयोगो गमकसंदर्भो गीयते । ततोऽनन्तरं सतालं गातुर्वाग्गेयकारस्य वर्ण्यस्य नायकस्य च नाम । तच्च विलम्बितमानेन | ततोऽनन्तरं तदेव गीत्वा गातृनायकयो माविलम्बितं गीत्वा पुनरपि विलम्बितेन समाप्तिर्यत्र तद्गद्यमित्युच्यते ॥ १८४-१९८ ॥
(क०) अथ कैवाडं लक्षयति—पाटैः स्यातामिति । ध्रुवोद्गाहावित्यत्र पाठक्रमो न विवक्षितः । किंतु “अग्निहोत्रं जुहोति, यवागू पचति" इतिवदर्थक्रमोऽनुसंधेयः । यथा तत्र यवागूपाकात् पूर्व द्रव्याभावाद्धोमस्यासंभवस्तथेहाप्युद्ग्राहात् पूर्व गीतारम्भाभावात् ध्रुवस्यासंभव एव । वृत्तानुरोधेन तत्रैव पाटाः कृता इति मन्तव्यम् । न्यसनं ग्रह इति । गृह्यत इति ग्रहः ; ग्रहशब्देनात्रोद्ग्राह उच्यते ; तत्र न्यासः कर्तव्यः । कैवाड इति करपाटप्रधानत्वात्तद्भवापभ्रंशपदेनेयं संज्ञा । करपाटास्तु वाद्याध्याये वक्ष्यन्ते । स शुद्धैमिश्रितैः पाटैरित्यत्र पाटानां शुद्धत्वं मुखवाद्याक्षरामिश्रितत्वम् । मिश्रितत्वं तु मिश्रत्वम् । तत्सहितत्वमित्यर्थः । एवं सार्थकः शुद्धकैवाड एकः, अर्थहीनः शुद्धकैवाडो द्वितीयः, सार्थकमिश्रकैवाडस्तृतीयः, अर्थहीनमिश्रकैवाडश्चतुर्थ इति चतुर्धा भवति । अत्र
Scanned by Gitarth Ganga Research Institute