________________
चतुर्थः प्रबन्धाध्याय: एकादिगुरुभङ्गेण क्रमाल्लक्ष्माण्यमूनि तु ॥ २३० ।।
"ज्ञेयाः सर्वादिमध्यान्तगुरवोऽत्र चतुष्कलाः ।
गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥" इति वचनाच्चतुर्मात्रिका भवन्ति । तत्र प्रथमादिगणानामनियमेऽपि “षष्ठोऽयं नलघू वा” इति वचनात् , पष्ठो गणोऽयमिति प्रकृतत्वाज्जगणः परामृश्यते; जगणो भवतीत्यर्थः । वा पक्षान्तरे। नलघू ; नगणश्च लघुश्च तौ भवतः । चत्वारः पृथग्लघवो भवन्तीत्यर्थः । एवं प्रथमार्धे षष्ठस्यैव गणस्य नियमो नान्येषाम् । तथा द्वितीयेऽपि “चरमेऽधै पञ्चमके तस्मादिह भवति षष्ठो लः" इति वचनात् षष्ठो गणो ल एक एव लघुर्भवतीति षष्ठस्यैव नियमो नान्येषाम् । तस्मादार्याया विशेषलक्षणं प्राधान्येन षष्ठगणगतं द्रष्टव्यम् । अत्रार्धद्वये षष्ठगणस्य विकारपरिहारेणेतरगणविकारा एव भेदानां लक्षणानि उक्तानीति मन्तव्यम् । पष्ठादन्यैरिति । प्रत्येकं गोपेतसप्तगणात्मनोः पूर्वोत्तरार्धयोः पष्ठाव गणादन्यैर्गणैः द्वादशसंख्याकैः । सर्वगुरुभिरिति । एकैकस्य गणस्य गुरुद्वयसंख्यया चतुर्विंशतिर्गुरवो भवन्ति । अधिकगुरुभ्यां सह पड्रिंशतिर्भवन्ति । एवं सर्वगुरुभिर्गणैः प्रथमा लक्ष्मीसंज्ञा भवति । परा: वृद्ध्यादयः पञ्चविंशतिः क्रमादेकादिगुरुभङ्गेण भवन्तीत्यध्याहार्यम् । एकादिगुरुभङ्गेणेति । एकद्वित्रिचतुरादिपञ्चविंशतिगुरुपर्यन्तं भङ्गेनेत्यर्थः । गुरोभङ्गो नाम लघुद्वयकरणम् । अत्रैकादिगुरुभङ्गेणेत्येतावत्युच्यमाने यत्र कुत्रापि स्थितस्यैकस्य तादृशयोईयोस्तादृशानां त्रयाणामेवं चतुरादीनामप्यनियतानां गुरूणां भङ्गे वृद्धयादिलक्षणत्वं प्राप्नोति; तन्मा भूदिति क्रमादित्युक्तम् । तेनात्रैकशब्दः संख्यावाच्येव प्रथमे नियम्यते । ततश्चादिशब्दोऽपि द्वितीयादिप्वेव नियम्यते । तथा च सत्येकस्य भङ्गे वृद्धिः । द्वयोर्भङ्गे बुद्धिः । त्रयाणां भङ्गे लीला । चतुर्णा भने लज्जा । एवं पञ्चगुरुभङ्गप्रभृति आपञ्च
Scanned by Gitarth Ganga Research Institute