SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकर: लघुभिर्बहुलैरल्पैः समैराद्यत्रयं क्रमात् । पृथग्गत्वे मिस्तु लगैस्तद्वत् परं त्रयम् ॥ १९४ ॥ प्रत्येकं गतिषट्केन षट्त्रिंशद्वद्यजा भिदाः । प्रणवाद्यमतालं च गमकैरखिलैर्युतम् ॥ १९५ ॥ वर्णैश्चातालशब्दानां स्वरैरन्तेऽन्तरान्तरा । २७२ मिश्रम् | द्रुतादि गतिषट्कं लक्षयति - लघुभिरित्यादि । बहुलैर्ल बुभिर्द्धता; स्वल्पैर्लबुभिर्विलम्विता; समैर्ल बुभिर्मध्येति क्रमः । अत्र लघोः प्रतियोगित्वेन गुरुर्द्रष्टव्यः। तस्याल्पत्वबहुत्वसमत्वानि द्रुतादिगतिषु क्रमेण कर्तव्यानीत्यर्थः । पृथग्लगत्व इत्यादि । अत्र लघूनां गुरूणां च पृथग्भूतानां भावः पृथग्लात्वम् ; तस्मिन् सति । तद्वत् पूर्ववत्; अपृथग्भूतत्व इवेत्यर्थः । एवं मित्रैर्लंगैस्तु परं त्रयं द्रुतमध्यादिकं गतित्रयं भवति । अयमर्थः - प्रथमार्धे लघूनेव प्रयुज्य द्वितीयार्थे पूर्ववत् समत्वेन मिश्रिता लगाः प्रयुज्यन्ते चेत्, तदा द्रुतमध्या गतिर्भवति । प्रथमार्धे लघूनेव प्रयुज्य द्वितीयार्थे गुरवः प्रयुज्यन्ते चेत्, तदा द्रुतविलम्बिता गतिर्भवति । प्रथमार्धे पूर्ववत् समत्वेन मिश्रान् प्रयुज्य द्वितीयार्थे गुरव एव प्रयुज्यन्ते चेत्, तदा मध्यविलम्बिता गतिर्भवतीति । एवं कलिकादयः षड् भेदाः प्रत्येकं गतिभेदेन षड्विधाः सन्तः पट्त्रिंशद्दद्यानि भवन्तीत्याहप्रत्येकमित्यादि । सकलभेदानुगतं सामान्यलक्षणमाह – प्रणवाद्यमित्यादि । प्रणव ओंकारः । अतालं तालरहितम् । अखिलैर्गमकैः; तिरिपादिभिः पञ्चदशभिः । वर्णैश्चेत्यत्राप्यखिलैरिति विशेषणीयम् । अत्र वर्णशब्देन स्थायादयश्चत्वारो वर्णा उच्यन्ते । तैः युतमिति चकारार्थः । अतालशब्दानामन्तेऽन्तरान्तरा स्वरैर्युतमित्यन्वयः । अतालशब्दानां तालरहितानां वाचकपदानामन्तेsaसाने समाप्तावित्यर्थः । अन्तरान्तरा; मध्ये मध्ये, पदावसानेष्वित्यर्थः । अत्र स्वरैः सरिगादिभिर्युतं यथा, तथा गातव्यमित्यर्थः । ततोऽनन्तरं प्रबन्ध 1 Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy