________________
चतुर्थः प्रबन्धाध्यायः
गौडीयरीतिरुचिरा' वृत्तिमारभटीं श्रिता । चूर्ण शान्ते रसे पीतं गातत्र्यं ब्रह्मदैवतम् ॥ ९८६ ॥ वैदर्भरीतिसंपन्नं सात्त्वतीं वृत्तिमाश्रितम् । सितं मदनदैवत्यं शृङ्गाररसरञ्जितम् || १८७ ॥ ललितं कैशिकीं वृत्तिं पाञ्चालीं रीतिमाश्रितम् । वृत्तगन्धि रसे शान्ते पीतं च मुनिदैवतम् ॥ १८८ ॥ पाञ्चालरीतौ भारत्यां पद्यभागविमिश्रितम् । खण्डं गणेशदैवत्यं सात्त्वतीं वृत्तिमाश्रितम् ॥ १८९ ।। श्वेतं हास्यकृदारब्धं वैदर्भीभङ्गिसंभवम् । शृङ्गारे वैष्णवं चित्रं चित्रकैशिकवृत्तिजम् ॥ १९० ॥ वैदर्भ्या रचितं रीत्या नानारीतिविचित्रया । वेणी मिश्रमिति प्राहुरन्ये भेदद्वयं परम् ।। १९१ ॥ वेणी सर्वैः कृता मिश्रं चूर्णकैर्वृत्तगन्धिभिः । द्रुता विलम्बिता मध्या द्रुतमध्या तथा परा ॥। १९२ ॥ गतिद्रुतविलम्बा स्यात् षष्ठी मध्यविलम्बिता । इति गद्यस्य षट् प्रोक्ता गतयः पूर्वसूरिभिः ॥ ९९३ ॥
२७१
1
चित्रकैशिकवृत्तिजमिति । कैशिकी चासौ वृत्तिश्चेत्यत्र “ स्त्रियाः पुंवत्" इति सूत्रेण पुंवद्भावे कैशिकवृत्तिरिति कर्मधारयः । चित्रा चासौ कैशिकवृत्तिश्चेत्यत्रापि पूर्ववत् समासपुंवद्भावो । कैशिकवृत्तेचित्रत्वं भारत्यादिभिर्वृत्त्यन्तरैः सह सांकर्येणेति वेदितव्यम् । तस्या जातमिति तथोक्तम् । वेणी सर्वैः कृतेति । सर्वैः कलिकादिभिः षड्भिर्भेदैः कृता वेणी । वृत्तगन्धिभिश्चूर्णकैः कृतं
1 उचितामिति सुधाकरपाठः ।
Scanned by Gitarth Ganga Research Institute