________________
२७०
संगीतरत्नाकरः यस्य स्यात्तेनकैासः स वर्णवर उच्यते । स्वरादेरादिविन्यासभेदादेष चतुर्विधः ॥ १८३ ॥
इति वर्णस्वरप्रवन्धः।
गद्यप्रबन्धः गद्यं निगद्यते छन्दोहीनं पदकदम्बकम् । तत् षोढोत्कलिका' चूर्ण ललितं वृत्तगन्धि च ॥१८४॥ खण्डं चित्रं च तेषां च प्रभवः सामवेदतः।
गातव्योत्कलिका वीरे रक्ता रुद्राधिदेवता ॥ १८५ ।। क्रमाद्रचनेति । अत्र स्वरपाटपदतेनानां क्रम ऐच्छिक इत्यर्थः । स्वरादेरादिविन्यासभेदादिति । स्वरस्यादौ विन्यासादेको भेदः । पाटस्यादौ विन्यासात् द्वितीयः । पदस्यादौ विन्यासात्तृतीयः। तेनस्यादौ विन्यासाच्चतुर्थः । स्वरादिप्वेकैकस्मिन्नादौ विन्यस्ते तदन्येषां त्रयाणामनियमेन विन्यासो भवति । अत्र स्वरादिषु चतुर्पु द्वाभ्यामुद्ग्राहः कर्तव्यः । द्वाभ्यां ध्रुवः कर्तव्यः । आभोगस्तु पदैः कर्तव्यः । एवमयमपि त्रिधातुः। तालनियमान्निर्युक्तः । बिरुदाभावात् पञ्चाङ्गः। आनन्दिनीजातिमान् ॥ १८२, १८३ ॥
__ (सं०) वर्णस्वरं लक्षयति-स्वरैरिति । स्वरैः पाटैः पदैस्तैनैर्यस्य विरचनं स्वाभिलषितक्रमेण च न्यासः, स वर्णस्वर इत्युच्यते । स चतुर्विधःस्वराणामादावुपनिबन्धनेनैको भेदः । पाटानामादिविरचनेन द्वितीयः । पदानामादिविरचनेन तृतीयः । तेनकानामादिविरचनेन चतुर्थ इति ॥१८२, १८३॥
(क०) अथ गद्यं लक्षयति-गद्यं निगद्यत इत्यादिना ।
1षोढा कलिकेति कलानिधिपाठः।
Scanned by Gitarth Ganga Research Institute