________________
चतुर्थः प्रबन्धाध्यायः आलिप्रबन्धनिरूपणम्
वर्णप्रबन्धः बिरुदैर्वर्णतालेन वर्णः कर्णाटभाषया ॥ १८१ ॥ तालत्रैविध्यतस्तस्य त्रैविध्यं गदितं बुधैः ।
इति वर्णप्रबन्धः।
वर्णस्वरप्रबन्धः स्वरैः पाटैः पदैस्तेनै रचना वाञ्छितक्रमात् ॥ १८२ ।। आभोगध्रुवावर्थत: सकृद्गीत्वा, आभोगध्रुवाभ्यामन्यत्रोद्ाहे न्यासः समाप्तिः सा एकतालोपनिबढेकतालिका । अस्यामुगाह आलापमात्रेणेति केषांचिन्मतम् ॥ १८०, १८१॥
(क०) अथालिक्रमेषु प्रथमोद्दिष्टं वर्णप्रबन्धं लक्षयति-विरुदैरित्यादिना । तालत्रैविध्यत इति । तालस्य वर्णतालस्य त्र्यश्रमिश्रचतुरश्रत्वभेदेन वक्ष्यमाणत्वात् त्रैविध्यम् ; तस्मात् । अत्रोद्ग्राहादीनामनुक्तावप्युग्राहध्रुवयोः सकलपबन्धेषु नियतत्वात्तयोरावश्यकत्वेनात्र तौ बिरुदबद्धौ कर्तव्यौ । 'अनुक्ताभोगवस्तूनां पदैराभोगकल्पना' इति परत्र परिभाष्यमाणत्वादत्र पदैराभोगः कर्तव्यः । तेनायं त्रिधातुर्भवति । तालभाषानियमान्निर्युक्तः । विरुदपदतालबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ १८१, १८२ ॥
(सं०) सूडस्थान् प्रबन्धान् लक्षयित्वा आलिक्रमस्थान् लिलक्षयिषुः प्रथमनिर्दिष्टं वर्ण लक्षयति-बिरुदैरिति । वर्णतालेन कर्णाटभाषया विरुदैरुपनिबध्यमानो वर्ण इत्युच्यते । तालाध्याये वर्णतालस्य त्रैविध्यं लक्षयिष्यति । ततो वर्णप्रबन्धस्यापि त्रैविध्यं ज्ञेयम् ॥ १८१, १८२ ॥
(क०) अथ वर्णस्वरं लक्षयति-स्वरैः पाटैरित्यादिना । वाञ्छित
Scanned by Gitarth Ganga Research Institute