________________
चतुर्थ: प्रबन्धाध्यायः
२७३
'प्रबन्धाङ्कं सतालं च पदद्वंद्वं पृथक् ततः ॥ १९६ ॥ द्विर्गीत्वा गीयते यत्र प्रयोगोऽपि विलम्बितः । गातृनाम सतालं च सतालं वर्ण्यनाम च ॥ १९७ ॥ विलम्बितेन मानेन पुनरप्यविलम्बितम् । गीत्वा विलम्बितालेन न्यासो गद्यं तदिष्यते ॥ १९८ ॥ इति गद्यप्रबन्धः ।
नामाङ्कितं सतालं येन केनापि तालेन सहितं पदद्वंद्वम् अवान्तराने कपदसमुदायात्मकमेकैकविभक्त्यन्तमेकैकक्रियया समन्वितं वा शब्दरूपद्वितयम् । पृथक् द्विर्गीत्वेत्यनेन प्रथमपदं द्विवारं गीत्वा द्वितीयपदमपि द्विवारं गायेदित्यर्थः । प्रबन्धाङ्कमित्यस्य पदद्वंद्वमितिसमुदायविशेषणत्वेन द्वयोः पदयोरेकतरस्मिन् प्रबन्धस्य नामाङ्कयेदित्यर्थः । सतालमित्यस्यापि तथात्वेन द्वयोरेक एव ताल: कर्तव्य इत्यर्थः । यत्रेति; यस्मिन् गद्ये । प्रयोगोऽपि विलम्वितो गीयत इति । अत्रापिशब्दः समुच्चये । तेन प्रयोगस्यापि पदद्वयस्य तालप्रयुक्तत्वं द्योत्यते । अत एव विलम्बित इति लयनियम उक्तः । अनेन पदद्वयस्यापि विलम्बितत्वं सूचितं भवति । गातृनाम सतालं चेति । प्रयोगानन्तरं गातृनाम; वाग्गेयकारः स्वनाम निबध्नीयादित्यर्थः । पुनः सतालमिति विशेषणेन प्रयोगकृतात्तालादन्यस्तालः कर्तव्य इत्यर्थः । अथवा पूर्व एव तालो लयान्तरेण प्रयोक्तव्य इत्यवगन्तव्यम् । पुनरप्यविलम्बितं गीत्वेति । अविलम्बितं द्रुतं यथा भवति तथा । अत्र विलम्बितान्यत्वेन मध्यस्य च ग्राह्यत्वेऽप्यविलम्बितपदेन हठाद् द्रुतप्रतीतेः स एव गृह्यते । पुनर्गीत्वेत्यत्र गेयविशेषानुक्तेः पूर्वोक्तक्रमेण सकल एव प्रबन्धः पुनर्गेय इति गम्यते । विलम्वितालेन न्यास इति । विलम्बितालस्य प्रथमं पदद्वये प्रयुक्तत्वात्तत्र पदद्वयादौ तालेनेति तृतीयया तालापवर्गे न्यासः कर्तव्य इति गम्यते । प्रथमपदस्यादिमारभ्य विलम्बितलयान्वितं 1 प्रबन्धकमिति सुधाकरपाठः
35
Scanned by Gitarth Ganga Research Institute