________________
चतुर्थः प्रबन्धाध्यायः
२६५ स प्रलम्भो ध्रुवस्थाने यत्रोद्ग्राहोऽन्यधातुकः ॥१७१॥ यत्र भागो भवेल्लम्भे भागलम्भः स भण्यते । त्रिश्चतुष्पश्चवारं वा भिन्नोद्ग्राहसमन्वितः ।। १७२ ॥ ध्रुवको गीयते यत्र स लम्भपदमुच्यते । ध्रुवभेदेऽनुलम्भोऽसौ द्विभेदे तूपलम्भकः ।। १७३ ।। एते त्रयोऽप्यनाभोगा विलम्भस्तु स उच्यते । उद्ग्राहा बहवो यस्मिन् ध्रुवाभोगविवर्जिताः ॥१७४॥ एते सालगसूडस्थैस्तालैराकलिता मताः ।
इति लम्भप्रबन्धः। शून्यश्चेदित्यादिना । उद्ग्राहस्य तालरहितत्वेन रागालापसाम्यादालापलम्भकसंज्ञान्वर्था द्रष्टव्या। स प्रलम्भ इति । यत्र यस्मिन् लम्भके ध्रुवस्थाने उद्ग्राहानन्तरमन्यधातुक उद्ग्राह इत्यनेन प्रथममुद्ग्राहो यैर्मातुभिः कृतस्तै रेव मातुभिरन्येन धातुना गीयते चेत् , स प्रलम्भो नाम भेदः । यत्र भागो भवेदिति । इतरलम्भापेक्षया तत्साम्येनोग्राहस्य प्रथमं भागं गीत्वा तद्वितीयभागे ध्रुवद्वितीयभागो गीयते चेत्, अन्वर्थतया भागलम्भो भण्यते । भिन्नोदग्राहसमन्वित इति । एक एव ध्रुवः प्रतिवारं भिन्ननोद्ग्राहेण सह गीयते चेत्, लम्भपदमिति तस्य नाम । ध्रुव भेद इति । एक एवोग्राहः प्रतिवारं भिन्नेन ध्रुवेण गीयते चेत्, अनुलम्भो नाम । द्विभेदे विति । प्रतिवारं भिन्नावुग्राहध्रुवौ गीयेते चेत् , उपलम्भो नाम । एते त्रयोऽपीति । लम्भपदानुलम्भोपलम्भाः । अनाभोगाः; न विद्यत आभोगो येषां ते तथोक्ताः । एतेन भेदान्तरेप्वाभोगः कर्तव्य इत्युक्तं भवति । तेनात्राभोगस्य वैकल्पिकत्वं विषयव्यवस्थया द्रष्टव्यम् । विलम्भस्त्विति । ध्रुवाभोगविवर्जिता उदग्राहा बहव इत्यनेन धातुभेदाभावो मातुभेदश्च गम्यते । तेनैकधातुका
34
Scanned by Gitarth Ganga Research Institute