________________
२६६
संगीतरत्नाकरः भिन्नमातुका उद्ग्राहा एव बहवो गीयन्ते चेत् , विलम्भो नाम लम्भभेदः । अत्रैकस्मिन् भेदे ध्रुवस्याभावेऽपि भेदान्तरेषु सद्भावात्तस्य न नित्यत्वहानिः । एवं मतान्तरोक्तेन सहाष्टौ लम्भकाः । अयं प्रबन्धस्तालाद्यनियमादनियुक्तः । आभोगस्य विकल्पेन विषयेषु व्यवस्थितत्वात् यत्राभोगसद्भावः, तत्र त्रिधातुः ; यत्र त्याभोगाभावः, तत्र द्विधातुः । विलम्भलक्षणे ध्रुवाभोगविवर्जिता इत्यनेन धात्वन्तराभावश्रुतावपि प्रबन्धभेदगतत्वेनापि पाक्षिकमेकधातुत्वमापादयितुं न शक्यते ; यत उद्ग्राहा वहव इत्युक्तम् । तेन ध्रुवस्थान उग्राह एव तत्प्रतिनिधित्वेन प्रयुक्त इति नैकधातुत्वम् । यदा तुग्राह एवैकवारं द्विवारं वा प्रयुज्य त्यज्यते, तदैष दोषः प्रसज्येत, नान्यथेति । अयं पदतालबद्धत्वात् व्यङ्गः । तारावलीजातिमान् ॥ १६९-१७५ ॥
(सं०) लम्भकं लक्षयति-उदाह इति । यत्रोद्राहो द्विर्गीयते सकृद्वा, सर्व उद्गाह एकखण्डो द्विखण्डो वा क्रियते, ध्रुवः सकृत् द्विर्वा, आभोगोऽप्येवम् ; ध्रुवे च समाप्तिः, स लम्भकः। मतान्तरमाह-भाग इति । अस्मिन् लम्भके तत्पूर्वोक्ते झोम्बडे च ध्रुवादनन्तरमुद्ाहसदृशो भागः प्रबन्धावयवः कर्तव्यः । ततोऽनन्तरं ध्रुव आभोगः पुनर्बुवो वा गेय इति । एतस्य भेदान् कथयति-उद्वाह इति । पूर्वोक्तस्य लम्भकस्योद्गाहस्तालेन विना यदा निबध्यते, तदालापलम्भक इत्युच्यते । ध्रुवस्थाने यत्रान्यधातुको विसदृशो गेय उद्गाहो निबध्यते, तदा प्रलम्भः । मतान्तरेणोक्तो भागो यत्रोपनिबध्यते, स भागलम्भकः । यत्र भिन्नैरुद्ाहैः समन्वितो ध्रुवकस्त्रिवारं चतुर्वारं पञ्चवारं वा गीयते, तदा पदमित्युच्यते । उद्गाह भेदे ध्रुवभेदे वा अनुलम्भः । ध्रुवोद्गाहभेदे तूपलम्भः । एते त्रयः पदलम्भानुलम्भोपलम्भा आभोगशून्या: । यत्र ध्रुवाभोगौ न स्तः, उद्गाहा बहवो विद्यन्ते, स विलम्भः । एतेऽष्टौ लम्भका वक्ष्यमाणसालगसूडस्थैस्तालैराकलिता युक्ताः कर्तव्याः । इत्यष्टौ लम्भकाः ॥ १६९-१७५ ॥
Scanned by Gitarth Ganga Research Institute