________________
२६४
संगीतरत्नाकरः
लम्भप्रबन्धः उद्ग्राहो द्विः सकृद्वैकखण्डो द्विशकलोऽथवा । यत्र ध्रुवो द्विर्वाभोगो ध्रुवे मुक्तिः स लम्भकः ।।१६९॥ भागोऽस्मिञ्झोम्यडेऽप्यूचं ध्रुवादुद्ग्राहसंनिभः। ध्रुवाभोगधुवा गेयास्तत इत्यूचिरे परे ॥ १७० ।।
उद्ग्राहस्तालशुन्यश्चेत् स स्यादालापलम्भकः। अद्भुतरसे नरसिंहः । भयानके भैरवः । हास्यशृङ्गारयोर्हसः । वीरभयानकयोः सिंहः । विप्रलम्भशृङ्गारे सारङ्गः। शृङ्गारे करुणे च रसे शेखरः । केवलशृङ्गारे पुष्पसारः। रौद्रे प्रचण्ड: । शान्ते नन्दीश इति । एवं त्रयोदशभिराहत्य च नवतौ गुणितायामेकादश शतानि सप्तत्यधिकानि (११७०) भवन्ति । एतेषां गद्यजत्वेन, पद्यजत्वेन, गद्यपद्यजत्वेनेति त्रैविध्ये दशोत्तराणि पश्चत्रिंशच्छतानि (३५१०) भवन्ति । तदेवाह-वियञ्चन्द्रशरामय इति । वियत् शून्यम् ; चन्द्र एकः ; शराः पञ्च ; अग्नयस्त्रयः । अङ्कानां वामतो गतिरिति वामवृद्धया एतेष्वङ्केषु क्रमेण स्थापितेश्यियं संख्या (३५१०) संजायते ॥ १५५-१६८ ॥
(क०) अथ लम्भकं लक्षयति-उद्ग्राहो द्विरित्यादि । एकखण्ड उदग्राहो द्विः सकृद्वा गीयते ; अथवा द्विशकल उद्ग्राहो द्विः सकृद्वा गीयत इति प्रत्येकं द्वैविध्यं योजनीयम् । यत्र यस्मिन् लम्भप्रबन्धे ध्रुवो द्विगेयो भवति । वाभोग इति । आभोगो वा ; कचिद्भवति, कचिन्न भवतीत्यर्थः । ध्रुषे मुक्तिरिति । ध्रुवखण्डमारभ्य न्यासः कर्तव्य इत्यर्थः । लम्भकझोम्बडयोमतान्तरेण लक्षणान्तरं दर्शयति-भागोऽस्मिन्नित्यादिना । अस्मिन् लम्भके झोम्बडेऽपि ध्रुवस्यो भागो द्वितीयो भाग इत्यर्थः । उदग्राहसंनिभः, उग्राहेण तुल्यधातुकः कर्तव्य इत्यर्थः । ततः ध्रुवानन्तरम् । ध्रुवाभोगध्रुवा गेया इति । ध्रुवं द्विवारं गीत्वानन्तरमाभोगं सकृद्गीत्वा पुनरपि ध्रुवमेकवारं गीत्वा ध्रुवमारभ्य न्यासः कर्तव्य इत्यर्थः । लम्भकभेदान् दर्शयति-उद्ग्राहस्ताल
Scanned by Gitarth Ganga Research Institute