________________
चतुर्थः प्रबन्धाध्यायः प्रभूतगमकः स्तोकगमकश्चेत्यमी स्फुटाः। प्रायोगिकः क्रमाख्यश्च ततः क्रमविलासकः ॥ १६१ ॥ चित्रो विचित्रलीलश्चेत्यमी स्युः पञ्चधा पृथक् ।। चतुराद्यष्टपर्यन्तं गणनिष्पादिताः क्रमात् ॥ १६२ ॥ मातृकः श्रीपतिस्तद्वत् सोमो रुचिरसंगती। ते लक्ष्येष्वप्रवृत्तत्वादस्माभिर्न पश्चिताः ॥ १६३ ।। विनियोगवशादेषां त्रयोदश भिदाः पृथक् ।
उपमारूपकश्लेषेर्ब्रह्मा वीरविलासयोः ।। १६४ ॥ मत इति । तारजाश्चतुर्धातवश्चत्वारः। मेलापकाभावपक्षे तारजास्त्रिधातवस्त्रय एव । अतारजश्चतुर्धातुरेकः । अतारजस्त्रिधातुरेकः । एवं संभूय नव झोम्बडा भवन्ति । भूय इति । प्रभूतगमकः स्तोकगमकश्चेति । नवानां प्रत्येक द्वैविध्येनाष्टादश झोम्बडाः स्फुटाः व्यक्तरूपाः । अत्र त्रिधातूनां भेदानां मेलापकाभावेऽप्युद्ग्राहध्रुवान्तभूतप्रयोगवत्त्वेन प्रभूतगमकत्वं च द्रष्टव्यम् । अनेन भेदकथनेनैव . त्रिधातुप्वपि झोम्बडेषु प्रयोगो विधातव्य इत्युक्तं भवति । प्रायोगिक इत्यादि । अमी अष्टादश झोम्बडाः । पृथक् प्रत्येकम् । क्रमाचतुराद्यष्टपर्यन्तं गणनिष्पादिता इति । चतुर्गणनिप्पादितः प्रायोगिकः । पञ्चगणनिप्पादितः क्रमाख्यः । षड्गणनिप्पादितः क्रमविलासः । सप्तगणनिप्पादितश्चित्रः। अष्टगणनिप्पादितो विचित्रलीलश्चेति पञ्चधा स्युः । एवं च. सति नवतिझोम्बडा भवन्ति । विनियोगवशादित्यादि । विनियुज्यन्त इति विनियोगाः, शृङ्गारादयो रसा उपमादयोऽलंकाराश्चात्र विवक्षिताः ; तद्वशादित्यर्थः । एषां नवतिसंख्याकानां झोम्बडानां पृथक् प्रत्येकं ब्रह्मादयो वक्ष्यमाणास्त्रयोदश भेदा भवन्ति । ब्रह्मादींस्त्रयोदश भेदान् लक्षयति-उपमारूपकेत्यादिना । उपमारूपक श्लेषैः; उपमारूपकश्लेषाख्यैरेवालंकारैर्लक्षितो ब्रह्माभिधो भेदो
Scanned by Gitarth Ganga Research Institute