________________
संगीतरत्नाकरः
झोम्बडप्रबन्धः द्विर्यत्रोद्ग्राहपूर्वार्धमुत्तरार्धं सकृत् ततः। मेलापका प्रयोगाढ्यः स वा स्याद् द्विस्ततो ध्रुवः॥१५५॥ आभोगं तु सकृद्गीत्वा ध्रुवे न्यासः स झोम्बडः। निःसारुकः कुडुक्कश्च त्रिपुटप्रति मण्ठको । १५६ ।। द्वितीयो गारुगी रासयतिलग्नाडुतालिकाः । एकतालीत्यमी ताला झोम्बडे नियता दश ॥ १५७ ।। केचिन्मण्ठमपीच्छन्ति नैष लक्ष्येषु लक्ष्यते । तारजोऽतारजश्चेति झोम्बडो द्विविधो मतः ॥ १५८ ॥ तारो ध्वनिस्थानकं स्यात् तद्युक्तस्तारजो मतः।। स चतुर्धा स्थानकस्योद्ग्राहादिषु निवेशने ॥ १५९ ।। अतारजस्तारहीनः सर्वोऽप्येष द्विधा मतः।। त्रिधातुश्च चतुर्धातुरिति भूयो भवेद् द्विधा ।। १६० ॥
(क०) अथ झोम्बडं लक्षयति-द्विर्यत्रेत्यादिना । प्रयोगाभ्यः प्रयोगप्रचुर इत्यनेन मेलापकस्य किंचिद्वाचकपदयुक्तत्वमभ्युपगम्यते । स वा स्यादिति । मेलापको वा स्यात् ; पक्षे भवति, न भवति वेत्यर्थः । ततोऽनन्तरं ध्रुवं द्विवारं गीत्वा, आभोगं तु सकृद्गीत्वा ध्रुवे न्यासः कृतश्चेत् , स झोम्बडः। झोम्बडे तालनियममाह-निःसारुक इत्यादि । निःसारुकादिषु दशस्वेकेन तालेन गातव्य इति नियमो द्रष्टव्यः । स चतुर्धेत्यादि । सः तारजः । उद्ग्राहादिषु निवेशन इति । उद्ग्राहस्य तारजत्व एको भेदः । मेलापकस्य तारजत्वे द्वितीयः । ध्रुवस्य तारजत्वे तृतीयः । आभोगस्य तारजत्वे चतुर्थः । एवं चतुर्धा तारजः । तारहीनत्वादतारज एको भेदः । सर्वोऽप्येष इति । उक्तप्रकारेण पञ्चविध एष झोम्बडः । त्रिधातुश्च चतुर्धातुरिति द्विधा
Scanned by Gitarth Ganga Research Institute