________________
चतुर्थ: प्रवन्धाध्यायः वर्तनीप्रबन्धः
स्वराद्यकरणस्येव वर्तन्या लक्ष्म किंत्विह । १५२ ।। रासकादन्यतालः स्याल्लयो ज्ञेयो विलम्बितः । द्विरुद्ग्राहो ध्रुवाभोगौ सकृन्मोक्षो ध्रुवे भवेत् ॥ १५३ ॥ कङ्काले प्रतिताले च कुडके द्रुतमण्ठके । रचिता चेत् तदा ज्ञेया वर्तन्येव विवर्तनी ॥ १५४ ॥ इति वर्तनीप्रबन्धः ।
२५९
(क० ) अथ वर्तनीं लक्षयति - स्वराद्येत्यादिना । स्वराधकरणस्येवेति । स्वरकरणस्य यथा लक्ष्म लक्षणम् उद्ग्राहध्रुवयोः स्वरवद्धत्वमा भोगे पदबद्धत्वमित्यादि, तत् सर्वमतिदेशतः प्राप्तं द्रष्टव्यम् । भेदकं दर्शयितुमाह---- कित्विति । इह वर्तन्याम् । रासकादन्यताल इति । करणप्रबन्धोक्ताद्रासकादन्यो यः कश्चन तालः, विलम्बितो लयश्चेति विशेषः । गानप्रकार विशेष - माह - द्विरुद्ग्राह इत्यादि । मोक्षो न्यासः । कङ्काल इत्यादि । कङ्कालादिषु चतुर्षु तालेष्वन्यतमेन रचिता चेत्, इयमेव विवर्तनीसंज्ञा भवति । अयं प्रबन्धस्तालादिनियमान्निर्युक्तः । मेलापकाभावात् त्रिधातुः । स्वरपदतालबद्धत्वेन त्र्यङ्गत्वात् भावनीजातिमान् ॥ १५२ - १५४ ॥
(सं०) वर्तनीं लक्षयति - स्वराद्येति । स्वरकरणस्येव वर्तन्या लक्षणम् । किंत्वयं विशेष:- रासकतालादन्यस्ताल:, विलम्बितो लयः, उद्ग्राहो द्विर्गीयते, ध्रुवाभोगौ सकृत्, ध्रुवे न्यासः । वर्तनीविशेषमेव विवर्तनीं लक्षयति- कङ्काल इति । उक्तकङ्कालादितालेष्वन्यतमेन विरच्यते चेत्, तदा वर्तन्येव विवर्तनीत्युच्यते ॥ १५२ - १५४ ॥
Scanned by Gitarth Ganga Research Institute