________________
२६२
संगीतरत्नाकरः विष्णुश्चक्रेश्वरो वीरे बीभत्से चण्डिकेश्वरः। नरसिंहोऽद्भुतरसे भैरवस्तु भयानके ॥ १६५ ।। हास्यशृङ्गारयोहंसः सिंहो वीरभयानके । विप्रलम्भे तु सारङ्गः शेखरः करुणे रसे ॥ १६६ ॥ सशृङ्गारे पुष्पसारः शृङ्गारे परिकीर्तितः। रौद्रे प्रचण्डो नन्दीशः शान्ते धीरैरुदीरितः ॥ १६७ ॥ गद्यजाः पद्यजा गद्यपद्यजा इति ते विधा। झोम्बडा इति संख्याता वियचन्द्रशराग्नयः॥ १६८॥
इति झोम्बडप्रबन्धः। भवति । अत्र “साधर्म्यमुपमा भेदे" इत्युपमालक्षणम् । चन्द्रवत् कान्तं मुखमित्युदाहरणम् । “तद्रपकमभेदो य उपमानोपमेययोः" इति रूपकलक्षणम् । मुखमेव चन्द्र इत्युदाहरणम् । " श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत्" इति श्लेषलक्षणम् । चन्द्रनृपयोर्वाचको राजेतिशब्द उदाहरणम् । वीरविलासयोर्विष्णुः । वीरे चक्रेश्वर इत्यादि योजनीयम् । वीरविलासयोरित्यत्र वीरशब्दसाहचर्याद्विलासशब्देन संभोगशृङ्गारो लक्ष्यते, तदनुभावत्वाद्विलासस्य । शृङ्गारादयो रसा नृत्ताध्याये निरूपयिष्यन्ते । एवं त्रयोदशभिर्भ देझोम्बडानां नवतौ पृथक् गुणितायां सप्तत्युत्तरशतसहितं सहस्रं (११७०) झोम्बडा भवन्ति । गयजा इत्यादि । उक्तसंख्यानां झोम्बडानां गद्यजादिभिर्मेदैः पुनस्त्रैविध्ये सति तद्भेदजां संख्यामाह-वियचन्द्रशरामय इति । वियत् शून्यं बिन्दुरित्यर्थः । प्रथमं बिन्दुलेखनीयः । चन्द्रशब्देनैकसंख्या लभ्यते, चन्द्रस्यैकत्वेन प्रसिद्धः । लेखकापेक्षया बिन्दोमिपाच एकाङ्को लेखनीयः । शरशब्देन पञ्चसंख्या लभ्यते, मदनबाणानां पञ्चत्वेन प्रसिद्धेः । एकाङ्कवामपाधै पञ्चाको लेखनीयः । अनिशब्देन त्रिसंख्या लभ्यते, यज्ञियानामनीनां त्रित्वेन . प्रसिद्धेः ।
Scanned by Gitarth Ganga Research Institute