SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २५६ संगीतरत्नाकरः लयान्तरेऽन्यतालेन ध्रुवाभोगौ ध्रुवस्त्विह ॥ १४६ ॥ त्रिखण्डस्तत्र खण्डे द्वे गीयेते समधातुनी। तृतीयमुच्चमेष द्विराभोगस्तु सकृत् ततः ॥ १४७ ॥ पुनीत्वा ध्रुवे' न्यासो यस्यां सा ढेङ्किका मता। चतुर्धा देङ्किका मुक्तावली स्याद् वृत्तबन्धिनी ॥१४८॥ युग्मिनी वृत्तमाला च तासां लक्ष्माण्यमून्यथ । अभावश्छन्दसां वृत्तं वृत्ते वृत्तानि च क्रमात् ॥ १४९॥ त्रिधा तिस्रो द्वितीयाद्या वर्णिका गणिका तथा। मात्रिका वर्णजैर्वृत्तैर्गणजैर्मात्रिकैरपि ॥ १५० ।। काताले विलम्बिते कङ्कालताले वा तौ भवत इत्येतत् पक्षद्वयम् । लयान्तरेऽन्यतालेनेति । ध्रुवाभोगौ लयान्तरे विलम्बितादन्यस्मिन् लये ; मध्यलये द्रुतलये वेत्यर्थः । अन्यतालेनेति । ढेकिकाकङ्कालाभ्यामन्येन येन केनचित् तालेनेत्यर्थः। समधातुनी इति । एकधातुक इत्यर्थः । एप द्विरिति । एष ध्रुवो द्विः द्विवारं गेय इत्यर्थः । ततो ध्रुवानन्तरमाभोगस्तु सकृन् गातव्यः । पुनर्गीत्वेति । एवमुक्तलक्षणं सकलं प्रबन्धं द्वितीयवारमपि गीत्वा ध्रुवे ध्रुवखण्डादौ न्यासः कर्तव्य इति गाननियम उक्तः । अभाव इत्यादि । छन्दसामभावो मुक्तावल्या लक्षणम् । वृत्तमिति वृत्तवन्धिन्या लक्षणम् । वृत्तबन्धिनीमेकेनैव वृत्तेन गायेदित्यर्थः । एवमुत्तरयोरपि द्रष्टव्यम् । वृत्ते इति युम्मिन्या लक्षणम् । वृत्तानीति वृत्तमालाया लक्षणम् । अत्र वृत्तानीति बहुवचनेन त्रिप्रभृतीनि गृह्यन्ते । द्वितीयाद्यास्तिस्र इति वृत्तबन्धिनीयुग्मिनीवृत्तमाला उच्यन्ते । विधेति; वक्ष्यमाणेन प्रकारेण । तमेवाह-वर्णिकेत्यादिना । वर्ण वृत्तैर्वर्णिका, 1 ध्रुवमिति सुधाकरपाठः। Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy