________________
२५५
चतुर्थः प्रबन्धाध्यायः
ढेकीप्रबन्धः द्विर्गीत्वोद्ग्राहपूर्वार्धमुत्तरार्धं सकृत् ततः। मेलापकः प्रयोगात्मा न वा स्यात्तावुभावपि ॥१४५॥ अतालौ देविकाताले कङ्काले वा विलम्बिते'।
-स्वरैरिति । स्वरैः मृदङ्गपाटैश्च यद्वध्यते, तद्वन्धकरणम् । पदकरणादीनि लक्षयति-स्वरैरिति । स्वरैः पदैश्च यद्वध्यते, तत् पदकरणम् । यत्र स्वरो बिरुदश्च बध्यते, तद्विरुदकरणम् । स्वरैस्तेनकैश्च यद्बध्यते, तत्तेनकरणम् । स्वरैर्हस्तपाटैमुरजाक्षरैश्च यद्वध्यते, तच्चित्रकरणम् । स्वरैः पाटैस्तेनैश्च यद्बध्यते, तन्मिश्रकरणम् । एतेषां प्रत्येकं त्रैविध्यं कथयति-मङ्गलारम्भ इति । गानभेदतः; गानप्रकारभेदात् । तमेव गानप्रकारे भेदमाह-द्विरुद्राहमिति । यत्रोद्गाहः पूर्व द्विवारं गीयते, ततोऽनन्तरं ध्रुवाभोगौ सकृद्गीत्वा पुनश्च ध्रुवोद्राही सकृद्रीयेते, तदा मङ्गलारम्भः । यदा तद्गाहध्रुवौ प्राग्वत् मङ्गलारम्भवत् ; उद्गाहो द्विर्गीयते, ततो ध्रुवः सकृत् ; ततोऽनन्तरं ध्रुवस्य पश्चिमाधैं गीयते , ततोऽनन्तरमाभोगध्रुवोद्गाहाः सकृद्गीयन्ते, तदानन्दवर्धनम् । यदा तु ध्रुवस्यार्धस्थाने उद्गाह द्वितीयाध गीयते, अन्यल्लक्षणमानन्दवर्धनवत् , तदा कीर्तिलहरी । एवं सप्तविंशतिः स्वरकरणादीनि | अक्षरेषु पाटकरणं द्विधेत्यनेनैतेषां नवानां मङ्गलारम्भादिभेदेन त्रैविध्ये सप्तविंशतिर्भदा भवन्ति ॥ १३२-१४४ ॥
(क०) अथ ढेकी लक्षयति-द्विीत्वेत्यादि । प्रयोगात्मा मेलापकः स्यान्न वेति प्रयोगस्वरूपस्यात्र वैकल्पिकत्वमुच्यते । एलायां स्वरूपेण स्वत एव प्रयोगस्य मतभेदेनोग्राहव्यपदेशो वा मेलापकव्यपदेशो वेति व्यपदेशविकल्पो द्रष्टव्यः । तावुभावपीति । मेलापकसद्भावपक्षमाश्रित्येदं वचनम् । तौ उद्ग्राहमेलापको उभावपि अतालौ तालरहितावित्येकः पक्षः । विलम्बितढेकि
1 विलम्बितौ इति सुधाकरपाठः।
Scanned by Gitarth Ganga Research Institute