________________
२५४
संगीतरत्नाकरः मङ्गलारम्भ आनन्दवर्धनं कीर्तिपूर्विका। लहरीति त्रिधा तानि प्रत्येकं गानभेदतः॥१४१ ॥ द्विरुद्ग्राहं ध्रुवाभोगौ सकृद्गीत्वा पुनः सकृत् ।। गीयेते चेद्धवोद्ग्राही मङ्गलारम्भकस्तदा ॥ १४२ ॥ उद्ग्राहधुवको प्राग्वद्धवाध पश्चिमं ततः। आभोगध्रुवकोद्ग्राहाः सकृदानन्दवर्धने ॥ १४३ ॥ उद्ग्राहस्य द्वितीया ध्रुवार्धस्थानगं यदि । इतरत् पूर्ववत् कीर्तिलहरी कीर्तिता तदा ॥ १४४ ॥
इति करणप्रबन्धः मङ्गलारम्भ इत्यादि । कीर्तिपूर्विका लहरीति । कीर्तिलहरीत्यर्थः । सुगममन्यत् । एवं करणानि सप्तविंशतिर्भवन्ति ॥ १३२-१४४ ॥
(सं०) विभागक्रमण करणं लक्षयति-अष्टधेति । करणमष्टप्रकारम्स्वरकरणम् , पाटकरणम् , बन्धकरणम् , पदकरणम् , तेनकरणम् , बिरुदकरणम् , चित्रकरणम् , मिश्रकरणं चेति । तत्र स्वरकरणं लक्षयति-यत्रेति । उद्गाहो ध्रुवश्च सान्द्रनिबिडैः स्वरैर्वद्धौ, आभोगस्तु पदैविरच्यते, तत्र आभोगे गातुर्वाग्गेयकारस्य नेतु यकस्य च नाम भवेत् , इष्टे स्वाभिलषिते स्वरे ग्रहः, अंशस्वरे न्यासः, वक्ष्यमाणरासाख्यस्तालः, द्रुतो लयः; तत् स्वरकरणमिति ज्ञेयम् । अन्यान्यपि स्वरकरणवत् पाटकरणादीनि विधेयानि । तर्हि कथं परस्परं भेदस्तत्राह-किंत्विति । तेषां किंचित् स्वरस्थाने भेदोऽस्ति । तथाच सादृश्ये सत्यपि भेदः सिध्यति । पाटकरणं लक्षयति-स्वरैरिति । हस्तपाटसहितैः स्वरैयदुपनिबध्यते तत् पाटकरणम् । तत् द्विप्रकारम्-क्रमेण व्यत्यासेन च । आदौ स्वराः पश्चाद्धस्तपाटा यदि निबध्यन्ते, तदा क्रमपाटकरणम् । यदा पूर्व हस्तपाटाः पश्चात् स्वराः, तदा व्यत्यस्तपाटकरणम् । बन्धकरणं लक्षयति
Scanned by Gitarth Ganga Research Institute