________________
२५३
चतुर्थः प्रबन्धाध्यायः क्रमव्यत्यासभेदेन तद् द्विधा परिकीर्तितम् । स्वरैर्मुरजपाटैर्यत् तद्वन्धकरणं मतम् ॥ १३७ ॥ स्वरैः पदैश्च बद्धं यत् करणं तत् पदादिमम् । यत् स्वरैविरुदैर्बद्धं करणं बिरुदादि तत् ॥ १३८ ॥ स्वरैः सतेनकैर्यत्तु तत् तेनकरणं मतम् । स्वरैः सकरपाटैर्यन्निबद्धं मुरजाक्षरैः॥ १३९ ॥ पदैस्तचित्रकरणमभिधत्ते हरप्रियः। स्यान्मिश्रकरणं बद्धं स्वरैः पाटैः सतेनकैः ॥ १४ ॥
हस्तपाटा नागबन्धादयः पटहोद्भवा वाद्याक्षरोत्करा वाद्याध्याये वक्ष्यन्ते ; तैः सहिताः सहस्तपाटा इति स्वरविशेषणम् । अतः स्वराणां प्राधान्येन प्रथमप्रयोगोऽवसीयते । तेन पाटकरणे स्वरैरुग्राहः स्यात् , अनन्तरं हस्तपाटैध्रुवः स्यादिति क्रमः । व्यत्यासो नाम तद्वैपरीत्यम् । स च हस्तपाटैरुग्राहः स्वरैर्भुव इति । बन्धकरणे स्वरैरुग्राहः, मुरजपाटैर्भुवः । पदकरणे स्वरैरुद्ग्राहः, पदैर्भुवः । बिरुदकरणे स्वरैरूदग्राहः, बिरुदैर्धवः । तेनकरणे स्वरैरुग्राहः, तेनकैर्धवः । चित्रकरणे स्वरैर्हस्तपाटैश्चोग्राहः, मुरजाक्षरैः पदैश्च ध्रुवः । मिश्रकरणे स्वरपाटतेनकैरुग्राहः, तैरेव ध्रुवोऽपि स्यात् । तिलतण्डुलवदवयविसांकयं चित्रत्वम् ; क्षीरनीरवदवयवसांकर्य मिश्रुत्वमिति भेदो द्रष्टव्यः । इह स्वरकरणादीनां भेदकानि स्वरादीनि विहाय मेलापकाभावेन त्रिधातुत्वम् , इष्टस्वरे गीतारम्भः, अंशस्वरे मोक्षः, -रासस्तालो द्रुतो लयः' इत्येतैर्युक्तत्वं च करणप्रबन्धस्य सामान्यलक्षणत्वेन पृथगनुक्तमप्युन्नेयम् । अत्र तालादिनियमस्य विद्यमानत्वादयं नियुक्तः प्रबन्धः । मेलापकाभावात् त्रिधातुः भेदेषु पर्यायेण यथायोगं षडङ्गबन्धत्वान्मेदिनीजातिमान् । एतानि नवापि करणानि गानप्रकारभेदेन प्रत्येकं त्रिधा भवन्तीत्याह
Scanned by Gitarth Ganga Research Institute