________________
२५२
संगीतरत्नाकरः
करणप्रबन्धः अष्टधा करणं तत्र खराद्यं पाटपूर्वकम् ॥ १३२॥ बन्धादिमं पदाद्यं च तेनाद्यं बिरुदादिमम् ।। चित्राचं मिश्रकरणमित्येषां लक्ष्म कथ्यते ॥ १३३ ॥ यत्रोद्ग्राहध्रुवौ सान्द्रस्वरबद्धौ पदैः पुनः। आभोगस्तत्र नाम स्याद्गातृनेत्रोहः पुनः॥ १३४ ॥ इष्टस्वरेंऽशे न्यासः स्याद्रासस्तालो द्रुतो लयः । करणं खरपूर्व तत् तद्वदन्यान्यपि स्फुटम् ॥ १३५ ॥ किंतु तेषां स्वरस्थाने भेदकानि प्रचक्ष्महे । स्वरैः सहस्तपाटैस्तु स्यात् पाटकरणं ध्रुवम् ॥ १३६ ॥
(२४); तासु मात्रैला द्वादश (१२); कर्णाटैला: षट् (६); अन्या देशैलाश्चतस्रः (४); एवमष्टसप्तत्यधिकं शतं (१७८) भवन्ति । एतावत्य एव छन्दस्वत्यः । आसां द्वैगुण्ये षट्पञ्चाशदधिकं शतत्रयमेला: (३५६) भवन्ति । ननु संकीर्णभेदाः कथं न संख्यायन्ते? अत्राह-अनन्तत्वादिति । हरप्रियः शिवभक्तः शाहूदेवः ॥ १२७-१३२ ॥
___ (क०) अथ करणभेदानुद्दिश्य लक्षयति-अष्टधा करणमित्यादिना । ग्रहः पुनः इष्टस्वर इति । अत्र ग्रहशब्देन गीतारम्भ उच्यते । स त्विष्टस्वर इति रागग्रहांशस्वरयोस्तदन्येपु वैकस्मिन् कर्तव्यः स्यादित्यनियमः प्रदर्शितः । अत्र न्यासशब्देन गीतमोक्ष उच्यते ; न तु स्वरविशेषः । तेनोद्ग्राहखण्डमारभ्यांशस्वरे गीतमोक्षः कर्तव्य इत्युक्तं भवति । स्वरस्थाने भेदकानीति । स्वराणां स्थानमत्रोद्ग्राहध्रुवकौ; भेदकानि वक्ष्यमाणानि हस्तपाटादीनि । स्वरकरणातिरिक्तपाटकरणादीनां स्वरूपभेदं दर्शयितुमाह—स्वरैः सहस्तपाटैस्त्वित्यादिना ।
Scanned by Gitarth Ganga Research Institute