________________
चतुर्थः प्रबन्धाध्यायः
२५१ षट्पश्चाशद्युतं प्रोक्तमित्येलानां शतत्रयम् ॥ १३१ ॥ अनन्तत्वात्तु संकीर्णा न संख्याति हरप्रियः ।
इत्येलाप्रवन्धः सति देशैला द्विशतं भवन्ति । सकलैलाभेदगतां संख्यामाह-षट्पञ्चाशदिति । इतीति ; उक्तप्रकारेण ; तथाहि-गणैलास्तावच्छुद्धा नादावत्यादयश्चतस्रः (४); विकृतास्त्रिनवतिः (९३); प्रकारान्तरेण विकृताः पञ्चदश (१५); मात्रैला विंशतिः (२०); वर्गलाश्चतुर्विंशतिः (२४); देशैलासु–कर्णाट्यश्चत्वारिंशत् (४०); लाट्यश्चत्वारिंशत् (४०); गौड्यश्चत्वारिंशत् (४०); आन्ध्यश्चत्वारिंशत् (४०); द्राविड्यश्चत्वारिंशत् (४०); एवमेलानां षट्पञ्चाशद्युतं शतत्रयम् (३५६)। अनन्तत्वादिति। हरप्रियः ; शार्ङ्गदेवः । संकीर्णाः, गणमात्रैलादिसंकरोत्पन्नाः संकीर्णेलाः । अनन्तत्वात् ; वक्तुमशक्यत्वादिति भावः। नसंख्याति; न परिगणयति। अयमेलाप्रबन्धस्तालादिनियमान्निर्युक्तः। मतान्तरेण मेलापकस्य सद्भावाच्चतुर्धातुः । मतान्तरेण तदभावात् त्रिधातुर्वा । तालपदबद्धत्वेन द्वयङ्गत्वात्तारावलीजातिमान् ॥ १२७--१३२ ॥
(सं०) अन्या देशैला लक्षयति-प्रान्तप्रासेति । लाटैलायां प्रान्तेऽनुप्रासः; बहवो रसाः । गौडैलायां गमकानुप्रासौ न स्तः; एक एव रसः । आन्ध्रयेलायां नानाविधाः प्रयोगा: गमका रागांशा रसा भावाश्च । द्राविडयेलायां रसा भावाश्च बहुलाः; अनुप्रासो नास्ति । तत्तल्लक्ष्मेति । एतासु पूर्वोक्तासु सर्वास्वप्येलासु तत्तलक्षणसंयुक्तश्चतुर्थश्चरणो यदि निबध्यते, तदैताश्छन्दस्वत्य इत्युच्यन्ते । वस्त्वेलां लक्षयति-द्वाविति । द्वौ चरणावनुप्रासहीनौ; तृतीयोऽनुप्रासयुक्तः; ध्रुवाभौगौ चानुप्रासयुक्तौ । तेषु सर्वेष्वपि वक्ष्यमाणाश्चतस्रो यतयः पृथक् पृथक् । अन्यल्लक्षणं पूर्वोक्तवर्णैलावत् । सा वस्त्वेलेति कथ्यते । उक्तैलाः संख्याति-षट्पञ्चाशदिति । चतस्रः शुद्धैला: (४); अष्टोत्तरं शतं विकृतैलाः (१०८); विंशतिर्मात्रैलाः (२०); वर्णैलाश्चतुर्विंशतिः
Scanned by Gitarth Ganga Research Institute