________________
संगीतरत्नाकर:
गमकप्रासनिर्मुक्ता गौडी त्वेकरसा मता ॥ १२७ ॥ नानाप्रयोगरागांशरसभावोत्कटान्धिका । भूरिभावरसोत्कर्षा द्राविडी प्रासवर्जिता ॥ १२८ ॥ तत्तल्लक्ष्मयुतस्तासु पादस्तुर्यो निबध्यते । तदैता गदिताः सर्वाश्छन्दस्खत्यः पुरातनैः ॥ १२९ ॥ द्वावङ्घी प्रासहीनौ स्तस्तृतीयः प्राससंयुतः । ध्रुवाभोगौ च तेषु स्युश्चतस्रो यतयः पृथक् ॥ १३० ॥ वर्णैलावत् परं यस्यां सा वस्त्वेला निरूपिता । इति देशैला
२५०
लाटी स्यात् इत्यादीनि स्पष्टार्थानि । तत्तदिति । तत्तल्लक्ष्मयुतस्तास्वित्यनेन लाट्यादिछन्दस्वतीनां लक्षणं कर्णाटीभ्यश्छन्दस्वतीभ्यो विशेषात् पृथगुक्तम् । इतरत्तु समानम् । तेन लाट्यादयोऽपि कर्णाटीवत् प्रत्येकं विंशतिभेदवत्य इत्यवगन्तव्याः । षष्ठस्य प्रकारस्य विशेषणानि सामान्येन दर्शयतिद्वावी इत्यादिना । ध्रुवाभोगौ चेत्यत्र चकारेण ध्रुवाभोगयोरपि तृतीयाङ्घ्रिवत् प्रासयुक्तत्वमभ्युपगम्यते । तेनाद्यप्रकारद्वयाश्रितास्वेलासूक्तसमुच्चयार्थश्चकारो द्रष्टव्यः । छन्दस्वत्यादिषु तु परास्वेलासु चतुर्थपादस्यापि सद्भावादनुक्तस्य तस्य समुच्चयार्थश्चकारो द्रष्टव्यः । तेन तासु चतुर्थपादोऽपि प्राससंयुतः कर्तव्य इत्यर्थः । तेषु स्युरित्यादि । तेषु त्रिषु वा चतुर्षु वा पादेषु पृथक् प्रत्येकं पादे पादे चतस्रो यतयश्चत्वारो विच्छेदाः स्युः । प्रतिपादं चतुरो विच्छेदान् कुर्यादित्यर्थः । वर्णैलावदिति यथा वर्णैलासु रागरसरीतिवृत्तिदेवतानामनियमस्तथात्रापि तेषामनियम इत्यतिदेशार्थः । एवंविशिष्टा वस्त्वेला निरूपिता! अत्र जातिविवक्षयैकवचनम् । एवं षट्पकाराश्रयणेन पूर्वपरिगणितानां द्वैगुण्ये
Scanned by Gitarth Ganga Research Institute