________________
चतुर्थः प्रबन्धाध्यायः
२४९ लाटाघेलाः प्रान्तप्रासा तु लाटी स्याद्भूयो रसविराजिता। कङ्कालप्रतितालादितालैः पूर्वोक्तैर्गेयाः । कर्णाटैलायां विशेषमाह-कर्णाटैलेति । आदौ मध्य अन्ते च यो वर्तते, तेनानुप्रासेनालंक्रता कर्णाटेला कर्तव्येति । कर्णाटलानां पूर्वोक्तनादावत्यादिभ्योभेदं मतान्तरेणाह-नादावत्यादिका इति । कर्णाटैलानां भेदानाह-षट्प्रकारत्वमिति । एतासां कर्णाटलानां षट्प्रकारत्वं षड्भेदत्वम् । तानेव भेदानाह-ब्रह्मण इति । ब्रह्मणः पूर्वमुखाजन्म | गणानामधिपः शंभुः। आद्यौ द्वावछी पादावाद्यानुप्राससंयुकौ । तयोश्च पादयोः पूर्वोक्तौ कामौ मदनद्वयम् अन्ते रतिगणसंयुक्तम् । तृतीयश्च पादः आदौ मध्येऽनुप्राससंयुक्तः, कामगणचतुष्टयेनकेन रतिगणेन चाधिकेन संयुक्तः । तदा आद्या नादावती सलेखेत्यच्यते । ब्रह्मणो दक्षिणमुखाजन्म । सावित्री देवता। हरिविष्णगणानामधिपः । कामगणचतुष्टयम् । अत्र आद्ययोः पादयोरादौ मध्ये चानप्रासः। तृतीयश्चरणस्त्रिवादिमध्यावसानेष्वनुप्राससंयुक्तः, कामगणैरष्टभिः संयुक्तः। तदा पूर्वोक्ता हंसावती कामलेखेत्युच्यते । ब्रह्मणः पश्चिममुखाजन्म । ब्रह्मा गणानामधिपः । गायत्री देवता । त्रिश्वप्यध्रिवादौ मध्ये चानुप्रासः । प्रतिचरणं चत्वारः कामगणाः। तदा पूर्वोक्ता नन्दावती स्वरलेखेत्युच्यते । ब्रह्मण उत्तरमुखाजन्म । गन्धर्वो देवता । गणानामधिपो गणेशः। प्रथमचरणद्वये षट् कामगणाः, अन्ते बाणगणः । तृतीयेऽद्मावष्टौ कामगणा:। अधित्रयेऽप्यादिमध्यावसानेष्वनुप्रासः । तदा पूर्वोक्ता भद्रावती भद्रलेखेत्युच्यते । कर्णाटैलानां छन्दस्वतीत्वमाह-पञ्चेति। कर्णाटेलासु चरणत्रये पञ्च कामगणाः; एको रतिगण: ; अन्ते पुनः कामगणः; तदा छन्दस्वत्य इत्युच्यन्ते । पूर्वोक्तगणानां न्यूनत्वे आधिक्ये वा एलाभासा इति कथ्यन्ते । शिखापदं लक्षयति-यदिति । एकस्य चरणस्य द्वयोस्त्रयाणां वान्तेऽन्येषां त्रयाणामध्रीणामधिपूत्यै तृतीयाज्रिप्रमाणं पदं क्रियते, तच्छिखापदमुच्यते । तत्तु तृतीयेऽङ्घौ प्रयोगात् । ततो मेलापकादयः पूर्व कर्तव्याः, अन्ययोः पादयोर्मेलापकाभावात् ॥ ११४-१२६ ॥
(क०) अथ लाट्यादीनां सामान्यविशेषलक्षणानि-प्रान्तमासा तु
Scanned by Gitarth Ganga Research Institute