________________
२४८
संगीतरत्नाकरः पश्च कामा रतिश्चैका कामोऽन्ते चरणत्रये । प्रत्येक तासु चेदेताश्छन्दखत्योऽखिला मताः॥१२४॥ गणादेन्यूनताधिक्यादेलाभासा इमा मताः। यदेकस्य द्वयोरञ्जयोस्त्रयाणां चान्ततः कृतम् ॥१२५॥ अधिपूत्यै तदन्यचेत्तृतीयाङ्क्रिमितं पदम् । शिखापदं तत्तृतीये त्वङ्घौ मेलापकादयः ॥ १२६ ॥ नादावती। पञ्च कामा रतिश्चैकेत्यादि तृतीयप्रकारस्य विशेषणवचनम् । एताश्छन्दस्वत्य इति । एता अनन्तरोक्ता रतिलेखादयः छन्दस्वत्यो नामान्याश्चतस्रः कर्णाट्यः । चतुर्थपञ्चमप्रकारयोविशेषणानि संभूयाह-गणादेरित्यादि । अत्रादिशब्देन मात्रा गृह्यन्ते । इमाः छन्दस्वत्य एव गणादेवूनताधिक्यरूपापरप्रकारेणाप्ये लाभासा इत्यन्याश्चतस्रः कर्णाट्यः । न्यूनताधिक्यादित्यत्र न्यूनता चाधिक्यं चेति द्वंद्वैकवद्भावः । सकलैलाभासानुगतानि विशेषान्तराणि दर्शयति-~-यदेकस्येत्यादिना । पूर्व छन्दस्वतीप्वेकस्य पादस्य द्वयोः पादयोस्त्रयाणां वा पादानामन्ततः अन्ते यत् कृतं 'कामोऽन्ते चरणत्रये' इति, अद्मिपूत्यै तदन्यच्चेदित्यन्वयः। अन्यत्वं च न्यूनतयाधिक्याद्वा भवतीति अन्यदिति साधारणो निर्देशः । तृतीयाङ्क्रिमितं शिखापदं नाम पदं तृतीयेऽङ्ग्रौ तृतीयपादान्ते कर्तव्यमित्यर्थः। ततो मेलापकादय इत्यध्याहार्यम् । आदिशब्देन ध्रुवाभोगौ गृह्यते । एतेन मेलापकादीनां भाषाकृताद्विशेषादन्यो विशेषो नास्तीति सूचितं भवति । एवं पञ्चभिः प्रकारैः कर्णाटेला विंशतिर्भवन्ति ॥ ११४-१२६ ॥
(सं०) देशैलां निरूपयति–कर्णाटेति । देशैला पञ्चविधाकर्णाटभाषयोपनिबद्धा कर्णाटैला ; लाटभाषया लाटेला ; गौडभाषया गौडैला; आन्ध्रभाषया आन्धैला; द्राविडभाषया द्राविडैला इति । एता मण्ठद्वितीय
Scanned by Gitarth Ganga Research Institute