________________
२४७
चतुर्थः प्रबन्धाध्याय: षट्पकारत्वमेतासां वक्ष्यमाणैर्विशेषणैः। ब्रह्मणः पूर्ववदनाजन्म शंभुर्गणाधिपः ॥ ११६ ॥ आद्याची आद्यनुप्रासौ रत्यन्तं मदनद्वयम् । प्रत्येकं च तयोरादिमध्यप्रासस्तृतीयकः ॥११७ ॥ चतुष्कामो रतिप्रान्तः सुलेखा स्यात्तदादिमा। दक्षिणास्याजनुर्यस्याः सावित्री देवता हरिः ॥ ११८॥ गणाधिपश्चतुष्कामं प्रत्येकं चरणद्वयम् । आदिमध्यस्थितप्रासंत्रिप्रासोऽविस्तृतीयकः॥११९॥ अष्टौ कामाः कामलेवा प्रोक्ता हंसावती च सा। पश्चिमाद्वदनाजन्म ब्रह्मा यस्या गणाधिपः ॥ १२० ॥ गायत्री देवताप्यादिमध्यप्रासास्त्रयोऽङ्घयः। पृथक्चतुःस्मरा नन्दावती सा स्वरलेखिका ॥ १२१ ।। जन्मोत्तरास्याद्गन्धर्वो गणेशः षट् च मान्मथाः । बाणान्ताः पादयोर्यस्याः प्रत्येकं स्युस्तृतीयके ॥१२२॥ अष्टौ कामा आदिमध्यप्रान्तप्रासास्त्रयोऽध्रयः। भद्रावती भद्रलेखा सा स्यात् कर्णाटसंमता ॥ १२३ ॥
सर्वमत्रापि कर्तव्यमिति गम्यते । किंतु कर्णाटीति भाषया भेदो द्रष्टव्यः । पटप्रकारत्वमित्यादि । एतासां कर्णाटीनां वक्ष्यमाणैर्विशेषणैरुपलक्षितानां पट्मकारकत्वं द्रष्टव्यम् । तत्र नादावत्यादिका एवेत्यनेनोक्त एकः प्रकारः । इतरे पञ्च प्रकारा वक्ष्यमाणैर्विशेषणैर्द्रष्टव्याः। उक्तेन प्रथमप्रकारेण चतस्रः कर्णाट्यो भवन्ति । ब्रह्मणः पूर्ववदनात् इत्यारभ्य सा स्यात् कर्णाटसंमता इत्यन्तेन ग्रन्थेन द्वितीयप्रकारस्य विशेषणान्युक्तानि । एतैर्युक्ता रतिलेखाद्यपरपर्याया नादावत्यादय एव पुनश्चतस्रः कर्णाट्यः । मुलेखेति । रतिलेखेत्यर्थः । आदिमा
Scanned by Gitarth Ganga Research Institute