________________
२४६
संगीतरत्नाकरः
देशैला कर्णाटलाटगौडान्ध्रद्राविडानां तु भाषया । देशाख्यैला बुधैः पञ्च प्रोक्ता मण्ठादितालतः ॥११४॥
कर्णाटैला कर्णाटैलादिमध्यान्तवर्त्यनुप्रासभूषिता। नादावत्यादिका एव कर्णाटीरपरे विदुः ।। ११५ ॥
(सं०) वर्गलां निरूपयति-गणमात्रेति । यासु गणमात्रादिनियमो नास्ति, केवलं वर्णसंख्यानियमेनोपनिबद्धास्ता वर्गलाः । तासां भेदानाहपडक्षरादिति । षडक्षरादध्रिखण्डादारभ्य एकोनत्रिंशदक्षरपर्यन्तमध्रिखण्डे क्रियमाणे चतुर्विंशतिर्वर्णेला भवन्ति । तासां क्रमेण नामान्याह-प्रथमेति । षडक्षरान्रिखण्डवती मधुकरी, सप्ताक्षराज्रिखण्डवती सुस्वरा इत्यायेकोनत्रिंशदक्षरा तरलेति यावत् ज्ञातव्यम् । तत्रान्त्या द्वादशेति । तत्राष्टादशाक्षरखण्डादूनत्रिंशदक्षरखण्डं यावद् द्वादशैलाः वर्णेलामात्रैलाभिर्भवन्ति । अतस्ता वर्णमात्रैला इति केषांचिन्मतम् । तास्तु वर्णसंख्यया वर्णेलाः। मण्ठादयोऽष्टादशाक्षराः । तावत्संख्याभिर्मात्राभिर्युन्ना मात्रैला भवन्ति । एतासु तालेष्वनियमः । नियमेन तु मण्ठादय एव ताला वर्णेलासु कर्तव्याः । एतासु रागादिनियमो नास्तीति । रमण्यादिमोहिन्यन्ताः सप्त मूर्छना मतङ्गेनोक्ताः ; ता अल्पभेदत्वानोक्ता इत्याह--रमणीति ॥ १०५-११३ ॥
___ (क०) अथ देशैलां लक्षयति-कर्णाटलाटेत्यादिना । मण्ठादितालत इति । अत्रादिशब्देन द्वितीयकङ्कालप्रतिताला गृह्यन्ते । मण्ठादिषु चतुर्पु तालेप्वन्यतमेन गातव्या इत्यर्थः । आदिमध्यान्तवर्त्यनुपासभूषितेति कर्णा टैलानां मिथः सामान्यलक्षणम् , इतराभ्यो विशेषलक्षणं च । नादावत्यादिका इत्यादि । अपर आचार्या नादावत्यादिका एव कर्णाटीविदुरिति । अत्रैवकारेण शुद्धानां नादावत्यादीनां चतसृणां यल्लक्षणमुक्तं तत्
Scanned by Gitarth Ganga Research Institute