________________
चतुर्थः प्रबन्धाध्यायः
षष्ठी मदनवत्युक्ता शशिनी च प्रभावती । मालती ललिताख्या च मता भोगवती ततः ॥ १०८ ॥ ततः कुसुमवत्याख्या कान्तिमत्यपरा भवेत् । ततः कुमुदिनी ख्याता कलिका कमला तथा ॥ १०९ ॥ विमला नलिनीसंज्ञा कालिन्दी विपुला ततः । विद्युल्लता विशालाच सरला तरलेति ताः ॥ ११० ॥ तत्रान्त्या वर्णमात्रैला द्वादशेत्यपरे जगुः । मण्ठद्वितीयकङ्कालप्रतितालेषु कश्चन ॥ १११ ॥ तालस्तासु विधातव्यो रागादिनियमो न तु । रमणी चन्द्रिका लक्ष्मीः पद्मिनी रञ्जनी तथा ॥ ११२ ॥ मालती मोहिनी सप्त मतङ्गेन प्रकीर्तिताः । यतिमात्रेण भिन्नास्ता इत्यस्माभिर्न दर्शिताः ॥ ११३ ॥ इति वर्णैला
२४५
एवं सप्ताक्षरादिषु वर्णैलादिषु सुस्वरादिकाः संज्ञा योजनीयाः । मण्ठद्वितीयेत्यादि । मण्ठादितालानां लक्षणानि तालाध्याये वक्ष्यन्ते ; तत एव तान्यवगन्तव्यानि । रागादिनियमो न त्विति । एतासु वर्णैलासु 'मण्ठद्वितीयकङ्कालप्रतितालेषु कश्चन' इत्येतावानेव नियमः ; न तु नादावत्यादिपूक्तो रागरसरीतिवृत्तिदेवतानियमः कर्तव्य इत्यर्थः । अत्रानेन रागादिनियमनिषेधेन पूर्वोक्तासु विकृतासु गणैलासु रतिलेखादिषु मात्रैलासु च प्रथमासु शुद्धासु च नादावत्यादिपूक्तस्तालरागरसरीतिवृत्तिदेवतानियमः सर्व एव कर्तव्य इत्युक्तं भवति । तत्र तु गणमात्राविकारत एव भेदो द्रष्टव्यः । यतिमात्रेण भिन्ना इति । यतिरत्र पदविच्छेदः ; तन्मात्रस्य भेदकत्वादिति भावः ॥ १०५-११३ ॥
Scanned by Gitarth Ganga Research Institute