________________
संगीतरत्नाकरः
वर्णेला
गणमात्राद्यनियता वर्णेला वर्णसंख्यया ॥ १०५ ॥ षडक्षरादधिखण्डादेकोनत्रिंशदक्षरम् । यावदेकैकवृद्धचैलाश्चतुर्विंशतिरीरिताः ॥ १०६ ॥ प्रथमा मधुकर्युक्ता सुखरा करणी ततः । चतुर्थी सुरसा प्रोक्ता पश्चमी तु प्रभञ्जनी ॥ १०७ ॥
२४४
लेखयोः अयुजावधी प्रथमतृतीयपादौ व्यत्यस्तौ भवत इति । रतिलेखायां प्रथमपादे दश मात्रा: । तृतीये एकादश । एवं कामलेखायां प्रथमे विंशतिर्मात्राः, तृतीये द्वाविंशतिर्मात्राः कर्तव्या इति । एतास्वपि विंशतौ मात्रैलासु मात्रागणनियमोऽङ्घ्रिखण्डद्वयाश्रयः कर्तव्य इत्यनुषञ्जनीयम् । अङ्घ्रिखण्डद्वयाश्रय इति ; अङ्घ्रिषु त्रिषु पादेषु खण्डद्वयात्मकानि पदानि कामविकारि - गीतसंज्ञकानि त्रीणि, तान्येवाश्रयो यस्येति तथोक्तः । तत्रैकैकखण्डाश्रयः कर्तव्य इत्यर्थः ॥ १०४–१०५ ॥
(सं०) अन्याश्चतस्रो मात्रैला लक्षयति- नन्दिनीति | अनियतैर्गणैर्युक्ता पूर्वोक्ता रतिलेखा नन्दिनीत्युच्यते । कामलेखा चित्रिणीत्युच्यते । बाणलेखा चित्रेति । आद्ययोर्विशेषमाह — एलयोरिति । आद्ययोर्नन्दिनीचित्रिण्योरेलयोरप्रथमतृतीयावी व्यत्यस्तौ विपर्यासेन गेयौ । तृतीयोऽङ्घ्रिः पूर्व गेयः । प्रथमश्व तृतीयस्थान इति । इति विंशतिर्मात्रैलाः ॥ १०४ - १०५ ॥
(क० ) अथ वर्णैलां लक्षयितुमाह – गणमात्राद्यनियतेत्यादि । वर्णसंख्यया; वर्णानां गुरुलघुरूपाणामक्षराणां संख्यया । यावदेकैकदृद्धयेति । यावत्पदस्यैकोनत्रिंशदक्षरमिति पूर्वेण संबन्धः । एकैकदृद्ध्या ; एकैकोत्तरवृद्धया । प्रथमा मधुकरीति । प्रत्येकं षडक्षराङ्घ्रिखण्डद्वयवती वर्णैला मधुकरी नाम ।
1
Scanned by Gitarth Ganga Research Institute