________________
चतुर्थः प्रबन्धाध्यायः
२४३ नन्दिनी चित्रिणी चित्रा विचित्रेत्यभिधानतः । रतिलेखादयः प्रोक्ताः क्रमादनियतैर्गणैः ॥ १०४ ॥ एलयोराद्ययोरजी व्यत्यस्तावयुजाविह ।
इति मात्रैला दर्शयितुमाह-एकत्रिीत्यादिना । नादावत्यादिसंज्ञा मात्रैला एकादिपञ्चान्तं यथेष्टं मात्रावृद्धौ कृतायां विचित्रमात्रैला विचित्रमात्रोपपदा इत्यर्थः ॥ १०१-१०३ ॥
(सं०) अर्जुनमतेनान्या मात्रैला: कथयति-नादावत्यादय इति । नादावत्यादयश्चतस्रो मात्रा नादावतीत्यादिसंज्ञावत्यो भवन्ति । स्वगणाः स्वोक्ता गणाः, तेषां भङ्गः । भङ्गो नामात्र ये गुरवस्तेषामेकैकस्य गुरोः पृथग्लघुद्वयात्मकतया प्रयोगः । तस्माजातैः चाद्यैः चकाराद्यैश्चतुर्मात्रिकैर्गणैनिक्षिप्तैरित्यर्थः । तेषामेव गणानां संख्यां नियमयति-गणा इति । पञ्च चगणाः, अन्ते त्रिमात्रो गणः, अङ्ग्रौ खण्डद्वयं चेत् , तदा मात्रा नादावती । सप्त चगणाः, अन्ते लघुः, तदा मात्रा हंसावती। सप्त चगणा:, अन्ते लघुः, तदा मात्रा नन्दावती । अष्टौ चगणाः, अन्ते त्रिमात्रो गणः, तदा मात्रा भद्रावतीति । इदं सव्यसाचिना अर्जुनेनोक्तम् । एता एव केनचिद्विशेषेण संज्ञान्तरवत्यो भवन्तीत्याह-एकेति । एतासामधिध्वेका मात्रा द्वे तिस्रश्चतस्त्रः पञ्च वा यदाधिका: क्षिप्यन्ते, तदैता एव मात्रा नादावत्यादयो विचित्रमात्रैला भवन्तीत्याह-विचित्रेति । धनंजयोऽर्जुनः ॥ १०१-१०३ ॥
(क०) मतान्तरेणान्याश्चतस्रो मात्रैला लक्षयितुमाह-नन्दिनी चित्रिणीत्यादि। रतिलेखादय इति । पूर्वोक्ता रतिलेखादय एवानियतैगणैः पूर्वोक्तगणनियमं विहाय केवलं तत्तन्मात्रासंख्यया युक्ताश्चेत् , क्रमेण नन्दिन्याद्यभिधानतः प्रोक्ता इति संबन्धः । तासु कचिद्विशेषान्तरं दर्शयतिएलयोराद्ययोरिति । इह चतसृषु मध्ये आद्ययोरेलयो रतिलेखाकाम
Scanned by Gitarth Ganga Research Institute