________________
२४२
संगीतरत्नाकरः गणाः पञ्च त्रिमात्रोऽन्ते गणाः सप्तान्तिमो लघुः॥ गणाः सप्त लघुश्चान्ते विमानोऽन्ते गणाष्टकः। लक्ष्माणीति क्रमात्तासामित्यूचे सव्यसाचिना ॥१०२॥ एकद्वित्रिचतुष्पश्चमात्रावृद्धिर्यदाद्धिषु ।
तदा विचित्रमात्रैलास्ता जगाद धनंजयः ॥ १०३ ॥ त्यर्थः। कथमित्याकाङ्क्षायामाह---स्वगणभङ्गजैश्चाद्यैरिति।स्वगणभङ्गाजैः; स्वासां गणा इति षष्ठीतत्पुरुषः । स्वे च ते गणाश्चेति कर्मधारयो वा । यथानादावत्यां भगणाः पञ्च ; अन्ते नगणः । हंसावत्यां रगणाः पञ्च ; अन्ते सगणः । नन्दावत्यां तगणाः पञ्च ; अन्ते जगणः । भद्रावत्यां सगणाः पञ्च ; अन्ते पगण इति एते स्वगणाः; तेषां भङ्गः । भङ्गो नामात्र ये गुरवस्तेषामेकैकस्य गुरोः पृथग्लघुद्वयात्मकतया प्रयोगः । तस्माज्जातैः चाद्यैः, चकाराद्यैः चगणैरित्यर्थः । चाद्यैरितीत्थंभूतलक्षणे तृतीया । तैर्लक्षिता इत्यर्थः । तानि लक्षणानि दर्शयति-गणाः पञ्चेत्यादिना । तासामिति नादावत्यादीनां मात्रैलानाम् । क्रमालक्ष्माणीति । नादावत्या भगणेषु भग्नेप्वन्त्येन नगणेन सह त्रयोविंशतिलघवो भवन्ति । तत्र चतुर्मात्रात्मकांश्चगणान् कृत्वा तद्गणनायां कृतायां गणाश्चगणाः पञ्च । अन्ते त्रिमात्रः । तिसृणां मात्राणां समाहारोऽत्र विवक्षितः । न तु प्लुतः, सर्वेषां लघुरूपत्वात् । एवं चेत् तदा नादावत्या नाम मात्रैलाया लक्षणम् । गणाः सप्तेति । हंसावत्याः सगणान्तेषु रगणेषु भग्नेप्वेकोनत्रिंशल्लघवो भवन्ति । पूर्ववद्गणनायां चगणाः सप्त, अन्तिमो लघुरेकः, तदा हंसावत्या लक्षणम् । पुनरपि गणाः सप्तेति । नन्दावत्या जगणान्तेषु तगणेषु भनेषु मात्रागणसंख्या पूर्ववदेव । एतन्नन्दावत्या लक्षणम् । त्रिमात्रोऽन्ते गणाष्टक इति । भद्रावत्यां पगणान्तेषु सगणेषु भग्नेषु पञ्चत्रिंशल्लघवो भवन्ति । पूर्ववद्गणनायामष्टौ चगणाः । अन्ते त्रिमात्र इति भद्रावत्या लक्षणमिति क्रमोऽनुसंधेयः । अर्जुनमतादेव भेदान्तराणि
Scanned by Gitarth Ganga Research Institute