________________
२४१
चतुर्थः प्रबन्धाध्यायः नादावत्यादयो मात्राश्चाद्यैः खगणभङ्गजैः। __ (सं०) मतान्तरेण मात्रैलां लक्षयति मात्रागणैस्त्विति । मात्रागणैः पूर्वोक्तश्छपचादिभिर्विरचिता मात्रैला । सा चतुर्विधा-रतिलेखा, कामलेखा, बाणलेखा, चन्द्रलेखेति । तत्र रतिलेखां लक्षयति-तत्रेति । एलाया उग्राहे पादत्रयमित्युक्तम् । तत्र प्रथमे पादे रुद्रा एकादश कला मात्रा भवन्ति । द्वितीये पादे चैकादश । तृतीये पादे दश । एवं पूर्वोक्तैः रतिगणैरेव मात्रासंख्यापरिपूर्तिस्तदा रतिलेखा। कामलेखां लक्षयति-कामलेखा विति । मान्मथे कामगणे पूर्वोक्ते कलाद्वैगुण्यं कर्तव्यमित्युक्तम् | तत्र प्रथमे द्वितीये च पादे द्वाविंशतिः कलाः । तृतीये तु विंशतिः । एवं पूर्वोक्तैः कामगणैरेव मात्रासंख्यापरिपूर्तिस्तदा कामलेखा। बाणलेखां लक्षयति-मात्रात्रैगुण्यत इति । प्रथमे द्वितीये च पादे त्रयस्त्रिंशत् कलाः । तृतीये तु त्रिंशत् । एवं पूर्वोक्तैर्बाणगणैरेव संख्यापूर्तिस्तदा बाणलेखा । चन्द्रलेखां लक्षयति-चन्द्रलेखा विति । मिश्रितैः रतिगणैः कामगणैर्वाणगणैश्चतुर्गुणाभिर्मात्राभिश्चन्द्रलेखा । प्रथमे द्वितीये च पादे चतुश्चत्वारिंशत् कलाः । तृतीये तु चत्वारिंशदिति । अथान्याश्चतस्रो मात्रैला लक्षयति–चतस्र इति । इन्दुमत्यादयश्चतस्रो मात्रैला भवन्ति । एता लक्षयति-छैः पञ्चभिरिति । षण्मात्रैश्छगणैः पञ्चभिः अन्ते तगणेनान्विते खण्डद्वये क्रियमाणे इन्दुमती। ज्योतिष्मती लक्षयति-पञ्चभिरिति । पञ्चभिः पगणैः पञ्चमात्रागणैरन्ते चगणेनान्विते खण्डद्वये क्रियमाणे ज्योतिष्मती । नभस्वती लक्षयति-त्रिभिरिति । एकश्छगणः, ततश्चगणात्रयः, तत: पगण एकः, अन्ते छगणेनान्विते खण्डद्वये क्रियमाणे नभस्वती। वसुमती लक्षयति -~~-सा स्यादिति । एको दगणः, स च मात्राद्वयात्मकः ; पः पञ्चमात्रागणः; चश्चतुर्मात्रागणः ; पत्रयं पञ्चमात्रागणत्रयम् ; छः षण्मात्रागणः । तस्त्रिमात्रागणः; एतैरवौ खण्डद्वये क्रियमाणे वसुमतीति ॥ ९४-१०० ॥
(क०) अर्जुनमतान्मात्रैलां लक्षयितुमाह-नादावत्यादय इत्यादि । मात्राः मात्रैलाः । पूर्व गणैलात्वेनोक्ता नादावत्यादय एव मात्रैला भवन्ती
31
Scanned by Gitarth Ganga Research Institute